पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अविद्याद्यनिर्वाच्यत्वे अर्थापत्तिप्रमाणनिरूपणम् 143 गौरवात्, चरमोपस्थितत्वाच्च । तदनन्तरं च भान प्रयोजका- भावादेवाभानोपपत्तौ न प्रयोजकान्तरकल्पना । नृशृङ्गादे- रसत्त्वेऽपि न बाधः, प्रसक्तथभावादिति – चेत्, मैवम् सत्त्वं न तावत्प्रतीतिप्रयोजकम्; रूप्यस्योभयमतेऽप्यप्रतीत्यापत्तेः, नाप्यसत्त्वं बाधप्रयोजकम्; उभयमतसिद्धासति बाधादर्शनात्, रूप्ये चासत्त्वस्याद्याप्यसिद्धेः, प्रत्युतासत्त्वेऽनुपपत्तेर्वक्ष्यमाणत्वात् गौरवं प्रामाणिकम् । तस्मात्सिद्धं ख्यातिबाधान्यथानुपपत्त्या अनिर्वाच्यत्वमिति || इत्यद्वैतसिद्धौ ख्यातिवाधान्यथानुपपत्तिः ॥ - त्यादिप्रयोजकत्वे सत्त्वादे प्रतीतिप्रयोजकत्वं वाच्यम्; तच्च न संभवतीत्याह – मैवमिति । प्रतीतिप्रयोजकम् प्रतीयमानत्वसमव्या- पकम् । अप्रतीत्यापत्तेरिति । न च – प्रतीतिबलात्सत्त्वं साधनीय- मिति – वाच्यम् ; प्रतीतेः सत्त्वव्याप्यत्वासिद्धेः | बाधादर्शनादिति । न च – सद्वैलक्षण्यस्य त्वन्मते बाघप्रयोजकत्ववदुपपत्तिरिति वाच्यम्; मन्मते सदसदन्यत्वस्यैव बाघप्रयोजकत्वात् । ननूभयसिद्धं सर्वमस- द्वाध्यते, शशो विषाणीत्यादिभ्रमेषु शशविषाणादेरपि बाघात्तत्राह - रूप्ये चेति । तथाच बाध्यमात्रेषु रूप्यादिष्वसत्त्वानिश्चयादसत्त्वस्य बाघप्रयोकत्वकल्पनासंभव इति भावः । प्रामाणिकमिति । प्रतीति- प्रयोजकं सत्त्वं स्वसमानाधिकरणात्यन्तभावाप्रातियोगित्वादिरूपं वाच्यम् । तथाच लाघवात्कालसंबन्धवत्त्वादिकमसद्व्यावृत्तं तथोच्यताम् । एवं बाघप्रयोजकं स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं कालसंबन्धित्वं वा युक्तम् ; न तु सर्वदेशकालवृत्त्यत्यन्ताभावप्रतियोगित्वं काला संबन्धित्वं 1 भाव.