पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

142 सव्याख्यायामद्वैत सिद्धौ [प्रथमः पारमार्थिकत्वेन प्रतीतिकाले सत्त्वेऽपि स्वरूपतो निषेधस्य निषेधेऽप्यनवस्थापरिहारस्य चोक्तत्वात् । नापि – प्रत्ये- कात्मकत्वेऽनुपपत्त्या उभयात्मकतैवास्त्विति – वाच्यम्; दत्तो- त्तरत्वात्, भ्रमत्वानुपपत्तेश्च । नचानिर्वाच्यविषयत्वेन यथा तव मते भ्रमत्वम्, तथा सदसदात्मकत्वे यत्सत्त्वं तद्विषयत्वेन भ्रमत्वमस्तु; एवं तर्हि 'सच्चासञ्च्च रजत ' मित्याकारताया दुर्निवारत्वापत्तेः । न च असदेव रूप्यमिति बाधस्य सद्वैलक्षण्य - विषयत्ववत् सद्रजतमिति भ्रमस्याप्यसद्वैलक्षण्यमेव विषयोऽस्तु, तथाच प्रातीतिकमपि सत्त्वं मास्त्विति – वाच्यम् ; तथा सति बाधेन भ्रमविषयसत्त्वानपहारे बायकत्वव्यवहारोच्छेदग्रसङ्गात्, अगृहीतासत्त्वस्यापीदं रजतं सदिति प्रतीतेश्च । न हि पुनरगृहीत - सत्त्वस्यासक्रूप्यमभादिति प्रत्ययः; बाधस्य प्रसक्तिपूर्वकत्वात् । - - तु - असद्विलक्षणं चेन बाध्येत सद्विलक्षणं चेन्न प्रतायेत, अतोऽनुपपत्त्या अनिर्वाच्यत्वाभाव एव किं न सिध्येत्, न च- अबाधाप्रतीत्योर्लाघवात्सत्त्वासत्त्वे प्रयोजके, न त्वसद्वैलक्षण्यसद्वै- लक्षण्ये; गौरवादिति – वाच्यम्, बाधप्रतीत्योरेव प्रथमोप- स्थितयोः प्रयोजकजिज्ञासायामसत्त्वसत्त्वयोः प्रयोजकत्वं कल्प्यते, लाघवात्, प्रथमोपस्थितत्वाच्च, न तु सद्विलक्षणत्वादेः $; प्रवृत्तिश्च । दत्तोत्तरत्वादिति । विरोधादिनेत्यादिः । भ्रमत्वानुप- पत्तेरिति । सद्विषयकधीः प्रमैव न तु भ्रम इति भावः । दुर्निवार- तेति । ननु – सत्त्वमेव भ्रमविषयः, असत्त्वं तु भ्रमप्रकारत्वादिना सेत्स्यतीति – चेन्न; सदसदात्मकविषयत्वस्य भ्रमत्वरूपत्वोक्तिविरो- घात्, सत्त्वादिप्रत्येकोक्तिदोषाणां सत्त्वादिसमुच्चयेऽप्यवारणाद्विरोधाच्च । प्रथमोपस्थितयोः – स्वाभावधीपूर्वमुपस्थितयोः । सद्वैलक्षण्यादेरप्रती - --- -