पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

144 सव्याख्यायामद्वैतसिद्धौ अथ निषेधप्रतियोगित्वानुपपत्त्या अनि- र्वचनीयत्वसमर्थनम्. [प्रथमः केचित्तु – बाध्यत्वं सत्यसति चानुपपन्नमित्य निर्वाच्यत्व- मिति – आहुः । न च अतीते तत्कालासति ध्वंसप्रतियोगित्व- वत् सर्वदा असत्यप्यत्यन्ताभावप्रतियोगित्वं स्यात्, तथा च बाध्यत्वं नात्यन्तासत्त्वविरोधीति – वाच्यम्; कालान्तरसत्तायाः कालान्तरसत्तां प्रत्यनुपयोगेऽपि विद्यमानतादशायामेव घटादौ ध्वंसप्रतियोगित्वम्; 'अनित्यो घटोऽस्ती' ति प्रतीतेः, न तु ध्वंसादिकाले घटे ध्वंसप्रतियोगित्वम् ; तदानीं घटादर्दाना- वा ; गौरवात् कालासंबन्धित्वस्य ब्रह्मण्यपि सत्त्वाच्च । किञ्च सत्त्वा- सत्त्वयोः प्रतीतिबाघप्रयोजकत्वे तर्काभावः; अनिर्वाच्यस्याप्यपरोक्षधी- बाघयोः संभवात् कालसंबन्धस्य तत्त्वे त्वस्ति तर्क:; कालसंब- न्धिन एवापरोक्षप्रतीतिरूपप्रसक्तेर्बाधस्य संभवात् । तस्मादसत्त्वस्या- प्रतीतौ सत्त्वस्याबाधे च प्रयोजकत्वं प्रामाणिकम् तदवच्छेदकस्य कालसंबन्धादेलघुत्वदिति भावः ॥ तर्कैः सारस्वतै रत्नैश्चन्द्रिका चन्द्रभूषणैः । दुरन्तध्वान्तभङ्गाय ख्यातिबाधान्यथास्थितिः ॥ इत्यद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां ख्यातिबाधान्यथानुपपत्तिः ॥ , अथ निषेधप्रतियोगित्वानुपपत्त्या अनिर्वचनीयत्वसमर्थनम् . कालान्तरसत्तायाः – ध्वंसप्रतियोग्यादेः स्वकालसत्तायाः । कालान्तरसत्तां - ध्वंसप्रतियोगित्वादेर्ध्वंसकालसत्ताम् । घटादीनामिति । अधिकरणासंबद्धकालस्य प्रतियोगित्वादाववच्छेद- तदानीं - 1 सत्त्वे -ग.