पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अविद्याद्यनिर्वाच्यत्वे अर्थापत्तिप्रमाणनिरूपणम् 139 अनिर्वाच्यतापक्ष एव न त्वसद्विषयतापक्षे । वस्तुतस्तु – संस्कारस्तावतात्विकरजतादिगोचर एव प्राथमिकरजतादिभ्रमे प्रयोजकः सर्वमते, स चासद्रूप्यशशशृङ्गादिसर्वसाधारण एव, तदविषयत्वाविशेषात् । तथाच कथं स नियामको भवतु ? एवं रेकाभ्यां संस्कारो भ्रमे प्रयोजकः, तत्र रजतत्वाद्यवच्छिन्नतादात्म्यादि- संबन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतासंबन्धेन संस्कार प्रति तादा- त्म्यादिना रजतत्वादिकार्यत्वं न तूक्तविशेष्यताशालिभ्रमत्वादिना गौरवादित्यपि बोध्यम् । यस्य पुरुषस्य रजतभ्रमो जातस्तस्यासद्रजत- स्वरूपे संस्कारसत्त्वात्तम्यैव भ्रमान्तरे तज्जन्ये भानम्, न तु शश- शृङ्गादेः ; समानप्रकारकत्वेन कार्यकारणभावसंभवात् । यस्य तु प्रथमत एवासद्रजतभ्रमस्तस्य तत्र भ्रमे सत्यरजतसंस्कार एव हेतुः परेण वाच्यः, तत्र यद्यसत्प्रकारकत्वरूपं भ्रमत्वं कार्यतावच्छेदकम्, तर्ह्यसत्त्वाविशेषात् शशशृङ्गादिश्रमोऽप्युक्तसंस्कारेण स्यादित्याशयेनाह- वस्तुतस्त्विति । शशशृङ्गादिसर्वसाधारणः सर्वासमजननयोग्यः । ननु – रजत भ्रमत्वं कार्यतावच्छेदकम् तच्च रजतत्वावच्छिन्नं यद- सन्निष्ठं प्रकारत्वं तच्छालित्वं न ; येन सर्वासतामुक्तभ्रमे भानं स्यात्, किंतु तदसद्व्यक्तिनिष्ठोक्तप्रकारताकत्वम् ; तत्राह- तदविष - यत्वाविशेषादिति । यदि तद्व्यक्तिविषयकसंस्कारो हेतुः स्यात्तदा तद्व्यक्तिभ्रमत्वेन कार्यत्वं स्यात्; समानविषयकत्वेनैव । सद्विषयक- संस्कारअम योर्हेतुहेतु मत्त्वदर्शनात् तद्व्यक्तयन्यसत्यविषयकसंस्कारे हे- तुत्वे तु कार्यतावच्छेदके सर्वासद्व्यक्तीना मेकैकव्यक्तिनिवेशे विनिगम- काभावः । न हि रजतत्वेन काचिदेवासद्व्यक्तिर्भ्रम विषय इत्यत्र त्वया मानमानेतुं शक्यम् । तथाचानन्तासद्व्यक्तीनां भाने गौरवमनुभवविरो- १ 1 रजतत्वादिना कार्यत्वं-क. 1 , --