पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैत सिद्धौ [ प्रथमः - प्रवृत्तिविषयत्वान्यथानुपपत्तिरपि प्रमाणम् । इदमंशस्यासत्रू- प्यात्मना प्रतीतौ सामग्रीविरहस्योपपादनात् । ननु – अनिदंरूपे प्रातिभासिके यदिदंत्वं व्यावहारिकसत्त्वं च तद्रूयं न तावत्सत् ; अद्वैतव्याकोपात्, नाप्यनिर्वाच्यम्; तथा सति तस्यास- लक्षण्यार्थ प्रातिभासिकत्वाय सत्वेन प्रतीत्या भाव्यम् । एवं च तदपि सचमनिर्वाच्यं चेत् तस्यापि सवेन प्रतीत्या भाव्यमित्यनवस्था, तथाच तयोरसचं वाच्यम् । तदुक्तम् – 'अन्यथात्वमसत्तस्माद्धान्तावेव प्रतीयते । 140 सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता | तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः ॥' इति ॥ टीकायामपि इदंत्वसत्त्वयोः सत्त्वायोगाद निर्वाच्यत्वे इदंत्वेन घश्च । अथ असद्जतनिष्ठोक्तप्रकारताकत्वं तथेति चेन्न; असतो हि रजतत्वं सद्जतसाधारणं सद्वा, तदसाधारणमसद्वा | आद्ये सदसतो: संबन्धायोगः, अन्त्ये शशविषाणादिमात्रगतधर्मघटितस्यापि तथात्वं तदवस्थम्, सत्यरजतसाधारणरजतत्वादिप्रकारकेच्छावतां भ्रमविषये प्रवृत्तयनुपपत्तिश्च । प्रवृत्तीति । इदंत्वादिविशिष्टरूप्यादिप्रवृत्तीत्यर्थः । प्रतीतौ उपादानप्रत्यक्षविधया प्रवृत्तिहेताविति शेषः । सामग्री- विरहस्य सन्निकर्षादिहेत्वभावस्य । प्रातिभासिके प्रातिभासिक- संसृष्टतया प्रतीयमानं शुक्तवाद्याधष्टाननिष्ठं यदिदंत्वं व्यावहारिक- सत्वं च तदुक्तसंसृष्टरूपेण न सत्; अद्वैतहाने, नानिर्वाच्य- मसद्वैलक्षण्यप्रयोजकस्य सत्त्वेन प्रतीयमानत्वस्यावश्यवाच्यत्वेनानव- स्थितेः । अन्यथात्वमित्यादि । अन्यथात्वं शुक्तयादे रूप्यादि- रूपत्वम् । भ्रान्तौ असद्विषयज्ञाने । एवं हि एवं च । सत्त्वस्यासत