पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

138 सव्याख्यायाम द्वैतसिद्धौ [प्रथम: - षाभावात्, सविशेषत्वेऽसत्त्वव्याकोपात् । ननु – सदसतोः सत्तानिःस्वरूपत्वादिनेव नृशृङ्गशशशृङ्गादीनामपि परस्परं नृशृङ्ग शशशृङ्गादिशब्दैरेव परोक्षप्रतीतिव्यवहारविषयत्वादेर्विशेषस्यास- वाविरोधिनो बुद्धिसिद्धस्य संभवः । न च - सर्वसामर्थ्य हीनस्यासतः सता ज्ञानेन कथं संबन्धः ! विषयत्वस्य तत्र वक्तुमशक्यत्वात्, भाति प्रतीयत इत्यादिकर्तृकर्मत्वादि विरोधा- चेति – वाच्यम्; अतीतादेः स्मृत्यनुमित्यादिविषयत्वादिव- दुपपत्तेः, न च – तत्र प्रतीत्यादेरेव विषयत्वम् तावतैव तत्र विषयताव्यवहार इति वाच्यम्; समं ममापीति – चेत्, मैवम् ; ; शशशब्दस्य नरि भ्रमदशायां नृशृङ्गशब्देनेव शशशृङ्गशब्देनापि नृशृङ्गस्य प्रतीयमानत्वेन नृशृङ्गादिशब्दैरेव प्रतीयमानत्वादेरपि परस्परविशेषस्य वक्तुमशक्यत्वात् । न च - दुष्टेन्द्रियादे रूप्यसंस्का- रसाचिव्यवच्छशशृङ्गसंस्कारसाचिव्याभावात्तस्यापरोक्ष भ्रमा- विषयत्वम्, अन्यथा तवाप्यनिर्वाच्यान्तरमेव तत्र कथं , - नोत्पद्येतेति-वाच्यम् ; संस्कारस्य न तावत्प्रतीतौ साक्षादुपयोगः; स्मृतित्वापत्तेः, किंत्वर्थोत्पत्तिद्वारा, तथाच संस्कारनियामकतापि ननु – शुक्तिरूप्यादौ रूप्यत्वादिविशेष एवापरोक्षतानियाम- कोऽस्तु ; तत्राह – सविशेषत्व इति । रूप्यादे : सतोऽसत्संबन्धानु- पपत्तेः, अस (द्वि) विशेषस्तु शशशृङ्गादावपीति भावः । शशशब्दस्य नारी भ्रमदशायां नरि शशशब्दस्य शक्तिभ्रमदशायाम् । अशक्यत्वा- दिति। प्रत्यक्षहेतुविशेषाभावे तात्पर्यं बोध्यम् । तेन तत्तद्धीविषयत्वादि- विशेषसत्त्वेऽपि न क्षतिः । स्मृतित्वापत्तेरिति । प्रत्यभिज्ञायां तु नव्यतार्किकमते स्मृतिरेव हेतुर्न संस्कारः, मन्मते तु प्रत्यभिज्ञा तत्तांश स्मृतिरेवेति भावः । पूर्वानुभूतजातीयस्यैव भ्रमोदयादन्वयव्यति- -