पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथमः स्वदेहादिरित्यपि स्यात् । तथा च पूर्वानुत्पन्नमदृष्टेन स्वत्त्वसहि- तमेवोत्पाद्यते, पूर्वोत्पन्ने तु स्वत्वमात्रमिति विभागः । एतेन -- श्रुतिस्थं ब्राह्मणपदं किं लक्षणया देहविशेषैक्याध्यासवत्परम्, देहविशेषसंबन्धपरं वा, संबन्धस्त्वन्यस्याभावादैक्याध्यास एव; यद्वा – देहविशेषपरम्, आत्मा तदैक्याध्यासात्प्रवर्तत इति । नाद्यः; विधौ लक्षणाया अयोगात्, पुत्रमित्रादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेत्यध्यासस्वीकारेण ब्राह्मणमित्रस्य शूद्रस्याधिकारप्रसङ्गात् शुद्रमित्रस्य ब्राह्मणस्यानाधिकारप्रस- ङ्गाच्च । न द्वितीयः; तदिन्द्रियाश्रयत्वादेः संबन्धान्तरस्यैव संभवात् । न तृतीयः; तस्य जडत्वेन नियोज्यत्वासंभवादिति- निरस्तम् ; चरमपक्षे दूषणमनुक्तोपालंभनम् ; प्रथमद्वितीयपक्ष- योरेव क्षोदसहत्वेनाङ्गीकारविषयत्वात्, विधौ लक्षणायाः ‘गोभिः 102 , साक्षात्प्रयत्न जन्यत्वमुक्तम् । स्वत्त्वसहितमिति । सति स्वामिनीत्यादिः । असति स्वामिनि तु तस्यैव स्वत्त्वकारणस्याभावात्स्वत्त्वासहित मेवोत्पा- द्यते । अत एव पुत्रोत्पत्तेः प्राङ्यतस्यादृष्टेन जनिते पुत्रे स्वत्त्वःसंभवा- त्स्वत्त्वमात्रं न फलम्, किंतु पुत्रादिकमपीति भावः । वस्तुतः पुत्रादौ पित्रादेः स्वत्त्वं प्रति पुत्रादेरेव हेतुत्वम्, आवश्यकत्वात् ; न त्वदृष्टविशेषस्य । न हि स्वत्त्वाश्रयपुत्रादिकं फलत्वेन विधिर्बोध- यति । गोभिरित्यादि । गोविकारैः पयोभिः मत्सरं सोमरसं श्रीणीत पचतेत्यर्थः ॥ यद्यप्ययं पयसा श्रीणीतेति विधिविहितश्रपणप्रकाशको मन्त्रः, तथापि 'छागस्य वपाया मेदसोऽनुब्रही 'ति मन्त्रस्य अग्नीषोमीयं पशुमालभेते' ति विधिस्थपशुपदे छागलक्षकत्वमिवोक्तमन्त्रस्य वाक्य- शेषतयोक्तविधिस्थपयःपदे गोपयोलक्षकत्वमित्यभिप्रेत्येदमुक्तम् 1 6