पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] देहात्मैक्याध्यासोपपत्तिः 101

एवं 'ब्राह्मणो यजेते' त्यादिश्रुतिरपि ब्राह्मणत्वाश्रय शरीरस्य जडत्वेनानियोज्यतया तदैक्याध्यासापत्रमात्मानं नियुञ्जाना तत्र प्रमाणम् । न च ब्राह्मणत्वाश्रयदेहेन संबन्धान्तरमादायैव नियोज्यत्वोपपत्तिः; तस्यानतिप्रसक्तस्य वक्तुमशक्यत्वात् । तथा हि – न तावत्संयोगः; आत्मनो विभुत्वेन सर्वदहसाधा- रण्यात् । नापि स्वस्वामिभावः संबन्धः; पश्वादिसाधा- रणत्वात् । नापि साक्षात्स्वस्वामिभावः संवन्धः पश्वादिव्या वृत्तस्य देहादिगतस्वस्वामिभावे साक्षाच्चस्य वक्तुमशक्यत्वात् । नापीच्छानुविधायित्वम् ; आमवातजडीकृते तदभावात | नापि तदिन्द्रियाश्रयत्वम् ; तद्धि तत्संबद्धेन्द्रियाश्रयत्वं वा, तज्ज्ञान- जनकेन्द्रियाश्रयत्वं वा । नाद्यः; अतिप्रसङ्गात् । न द्वितीयः ; ज्ञानपदेन स्वरूपचैतन्योक्तावसंभवः, अन्तःकरणवृत्युक्तौ तेनापि संबन्धार्थमध्यासस्यावश्यकत्वात्, तद्वरं देहस्यैवाध्यासिकः संबन्ध इत्युच्यताम् । अत एव - साक्षात्प्रयत्नजन्यक्रियाश्रयत्वं वा, तद्भो- गायतनत्वं वा, तत्कर्मार्जितत्वं वा संबन्ध इति निरस्तम् । तत्कर्मा- र्जितत्वस्य पुत्रादिसाधारणत्वाच्च । न च तत्रादृष्टेन स्वत्त्वमेवो- त्पाद्यते, न तु पुत्रादिरिति – वाच्यम् ; ग्रामादिवत्पुत्रस्य सिद्ध- त्वाभावेन स्वच्वोत्पादनार्थमपि तदुत्पादनस्यावश्यकत्वात् । अन्यथा स्वदेहसुखादिष्वप्यस्यादृष्टेन स्वत्त्वमेवोत्पाद्यते, न तु - , . तच्छोभते; तथासत्यात्मन्यपि तद्देहनाशकाले तद्भेदग्रहस्य सिद्धावपि तद्देहकाले तदैक्यारोपसंभवेनास्मदिष्टसिद्धेः । अनियोज्यतया अप्रवर्तनीयतया । नियुञ्जाना प्रवर्तयन्ती । अतिप्रसङ्गादिति । इन्द्रियेषु सर्वात्मसंयोगादिसंबन्धसत्त्वादित्यादिः । अत एव घटकस्य तादात्म्य संबन्धस्याध्यासिकत्वादेव । तत्प्रयत्नजन्यक्रिया घटादावपीति