पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धो [प्रथमः - अमेऽविरोधात् । न च – प्रत्यक्षे धार्मणि भेदकसाक्षात्कारो भेद- साक्षात्कारव्याप्तः, इह च व्यावृत्तत्वेन बुद्धिस्थदेहादितो भेद- कस्यानुवृत्तत्वस्यात्मनि प्रत्यभिज्ञाप्रत्यक्षसिद्धत्वात् व्यावर्तक- साक्षात्कारस्यैवैक्यापरोक्ष भ्रमविरोधित्वात् निरुपाधिकत्वेन विशे- षदर्शनाप्रतिबध्यत्वस्य वक्तुमशक्यत्वात् कथमैक्यभ्रम इति वाच्यम् ; भेदकसाक्षात्कारस्य भेदसाक्षात्कारेण व्याप्तेरैक्या- रोपेण सह विरोधस्य चासिद्धेः । 'नीला बलाके' त्यत्र नीलाद्भे दकस्य बलाकात्वस्य ग्रहेऽपि नीलभेदसाक्षात्काराभावस्य तदभेदसाक्षात्कारस्य च दर्शनात् । न च तत्र दोषप्राबल्या- तथा ; प्रकृतेऽपि दोषप्राबल्यानेति केन तुभ्यमभ्यधायि ? व्यावर्तकसाक्षात्कारस्य भेदसाक्षात्कारव्याप्यस्य भेदकसाक्षात्कारस्य । ननु-भेदसाक्षात्काराभावेऽपि भेदकसाक्षात्कार एव विरोध्यस्तु, तत्राह- ऐक्यारोपेणेति । देहान्तरानुवृत्तत्वं विद्यमानदेहभेदव्याप्यत्वेन यद्यपि गृहीतम्, तथाप्यात्मनि तद्धीनपरोक्षेति विद्यमानदेहाभेदारोपाऽविरोधि- नीति भावः । ननु-भेदके प्रत्यक्ष भेदोऽपि प्रत्यक्षोऽस्तु, सामग्री- सत्त्वादित्याशङ्कयाभेदप्रत्यक्षहेतुदोषस्य प्रतिबन्धकत्वेन सामग्रयभावं सदृष्टान्तमाह — नीलेति । दोषप्रावल्यात् रात्रिकालरूपदोषस्य भेदधी- प्रतिबन्धकत्वरूपात्प्राबल्यात् । तथा भेदाप्रत्यक्षम् । दोषप्राबल्यं वासनाविशेषादिदोषप्राबल्यम् । 'शङ्खो न पीत' इत्याद्यनुमानसत्त्वेऽपि पित्तादिदोषेण तादृशप्रत्यक्षप्रतिबन्धकेन शङ्खः पीत इत्यादिप्रत्यक्ष- दर्शनेन भेदस्य परोक्षधीसत्त्वेऽपि वासनादिदोषात्तदभेदप्रत्यक्षमिति भावः । यत्तु यदा यदा भेदकप्रत्यक्षं तदा तदा भेदप्रत्यक्षमिति कालिक- व्याप्तयभावेऽपि यत्र यत्र भेदकस्य प्रत्यक्षं तत्र भेदस्यापीति दैशिक- व्याप्तिः प्रकृते वाच्या ; बलाकायामपि दिवा भेदो गृह्यत एवेति, - 100 -