पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] देहात्मैक्याध्यासोपपत्तिः श्रीणीत मत्सर ' मित्यादौ दर्शनात् स्वीयत्वाद्यप्रतिसन्धान- निबन्धनस्य पुत्रमित्रादिव्यावृत्तस्यैव सर्वानुभवसाक्षिकस्या- ध्यासस्य प्रयोजकतया नोक्तस्थलेऽतिप्रसङ्गाप्रसङ्ग । कादा- चित्कस्य तादृशाभ्यासस्यैव ब्राह्मणपदप्रयोगनिमित्तत्वेन 'ब्राह्मणो न हन्तव्य' इत्यादे: सुषुप्तविषयत्वादिकमपि सङ्गच्छते । तथा आदिपदात् 'उच्चैर्ऋचा क्रियत' इत्यादौ ऋगादिपदम्य ऋग्वेदादि- लक्षणेति बोद्धयम् । वस्तुतो ब्राह्मणत्वादिविशिष्टे ब्राह्मणादिपदशक्तिः ब्राह्मणत्वादिवैशिष्ट्यं च देहे स्वाभाविकमात्मन्यौपाधिकम् तदुभय मपि व्यावहारिकत्वाच्छक्यशरीरप्रविष्टम्; आजानिकव्यवहारस्य शक्ति- ग्राहकस्योभयत्राप्यविशिष्टत्वात् तदुभयोरेकत्वेनैव व्यवहारकाले निश्च- याच्च । तथाच क लक्षणादोष इति ध्येयम् || , 103 स्वीयत्वाद्यप्रतिसन्धाननिबन्धनस्येति । स्वीयत्वादिबुद्धय- प्रयुक्तत्वयोग्यस्येत्यर्थः । पुत्रमित्रादौ स्वीयत्वादिबुद्ध्या तत्साकल्यादि- धर्माणां स्वस्मिन्नध्यासात्सकलत्वादिना पुत्रादेरपि स्वस्मिन् तादात्म्या- धर्माध्यासस्याप्रतिबन्ध 'रूपस्य धर्म्यध्यासव्याप्यत्वात् । तथाच ब्राह्मणमित्रादेरपि सकलत्वादिनैव शूद्रादौ तादात्म्याध्यासो न तु ब्राह्मणत्वादिनेति ब्राह्मणत्वाद्यवच्छिन्न प्रतियोगिताकतादात्म्याध्यासः ध्यासः ; स्वीयत्वादिबुद्ध्यप्रयुक्तत्वयोग्य इति भावः । प्रयोजकतया उक्तश्रुति- •विषयत्वेन नियोज्यप्रयोजकतया | कादाचित्कस्येति । 'न शूद्र- याजिनः श्राद्धे भोजनीया' इत्यादौ कदाचिच्छूद्रयाज्यादौ शूद्रयाज्या- दिपदस्येव कदाचिद्ब्राह्मणादिदेहतादात्म्याध्यासवति ब्राह्मणादिपदप्रयोग इति भावः । वस्तुतो हननस्य सुषुप्तपुरुषे कृतस्यापि प्रबुद्धतदीय - देहप्राणवियोगानुकूलव्यापाररूपत्वा नपायात् प्रबुद्धतादशायां च ब्राह्म- , 1 प्रतिबिम्ब,