पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] देहात्मैक्याध्यासोपपत्तिः 95 देहात्मनोर्न तेन, किंतु चरमवृत्येति । न चैवं – गेहीतिव द्देहीति प्रतीतिर्न स्यात्, किंतु देहोऽहमितीति वाच्यम् ; देहत्वेन भेदग्रहाद्ब्राह्मणत्वादिना भेदाग्रहाच्च ब्राह्मणोऽहं देहमित्युभय- प्रतीत्युपपत्तेः । देवदत्ताद्यज्ञदत्तोऽन्य इति भेदबुद्धावपि तत्वेनो- पस्थितादेवदत्ताद्यज्ञदत्ते 'सोऽय' मित्यभेद भ्रमदर्शनात् । ननु - 'ब्राह्मणोऽहं मनुष्योऽह' मिति कथमध्यासरूपम् ? मनुष्यत्व- ब्राह्मणत्वादेः शरीरविशिष्टात्मवृत्तित्वेन प्रमात्वस्यैव संभवात् । तदुक्तम्- ब्राह्मणोऽहं मनुष्योऽहमित्यादिस्तु प्रमैव नः । देहभेदयुतो यस्माद्ब्राह्मणादि पदोदितः ॥

इति--चेन्न; मनुष्यत्वादेर्देहविशिष्टात्मवृत्तित्वे चक्षुरादिगम्यत्वं न स्यात्, देहविशिष्टात्मनश्चक्षुरगम्यत्वात् । न चैकदेशस्य चक्षुर्गम्यत्वाद्विशिष्टगता जातिश्चक्षुषा गृह्यत इति – वाच्यम्; व्यासज्यवृत्तेरुभययोग्यतायामेव योग्यत्वनियमात् । अन्यथा ऐन्द्रियकानेंन्द्रियकवृत्तिसंयोगद्वित्वादेः प्रत्यक्षता स्यात् । व्यासज्यवृत्तित्वस्य जातावदृष्टचरत्वात् पृथिवीत्वादिना सङ्करा- - एवं च मिथ्यात्वघटकाभावोऽधिष्ठानरूपत्वेन तात्विकस्तदतिरिक्तत्वेन कल्पितो वोभयथापि न क्षतिरित्यादिकं तु मिथ्यात्वानुमाने पूर्वमुक्त- मित्यर्थः । तत्त्वेन —तद्देशकालवृत्तित्वेन । उपस्थितात् — देवदत्ता- दभेदभ्रमस्य सोऽयमित्याकारकस्य यज्ञदत्ते दर्शनात् । भेदयुतः - अभे- दान्यसंसर्गयुक्तः । विशिष्टं न विशेषणविशेष्याभ्यामतिरिक्तम् ; तथा- चोभयपर्याप्तत्वेऽपि योग्यवृत्तित्वान्मनुष्यत्वादिकं चक्षुषा गृह्यतामिति शङ्कते -- न चेति । ननु – विशिष्टस्यातिरिक्तत्वपक्ष एवालम्बनीयः; केवलात्मन एव चक्षुराद्ययोग्यत्वेन देहविशिष्टस्य तद्योग्यतासंभव- - -