96 [ प्रथमः पत्तेः, तव मते आत्मनोऽणुत्वेन तवृत्तित्वेऽतीन्द्रियत्वप्रसङ्गात् । स्तत्राह —तवेति । आत्मन इति । देहादिविशिष्टात्मनोऽपीत्यर्थः । मन्मते सद्रूपस्यात्मनश्चक्षुरादियोग्यत्वाद्देहविशिष्टरूपेणापि तत्संभवति । परं तु वक्ष्यमाणरीत्याऽऽत्मनि कल्पिततादात्म्यान्यस्य देहवैशिष्ट्यस्य वक्तुमशक्यतया गौरोऽहं कृशोऽहमित्यादौ देहैक्याध्यासावश्यकत्वाञ्च देहस्यैव मनुष्यत्वादिकं स्वाभाविकमुच्यते । त्वन्मते तु पार्थिवाद्यणो- रिवात्मनोऽपि विशिष्टरूपेणापि चक्षुराद्ययोग्यत्वम् ; विशिष्टपरमाणुं पश्या- मीत्यादेवि विशिष्टात्मानं पश्यामीत्यादेरपि प्रत्ययस्याभावादिति भावः || सभ्याख्यायामद्वैतसिद्धौ - 2 ननु - ब्राह्मणात्मानं पश्यामीत्यादिप्रत्यय इष्ट एव, अथवा आत्मत्वं न विशिष्टवृत्तीति नोक्तप्रत्ययः ; विशिष्टात्मेति व्यवहारस्तु विशिष्टस्य केवलात्मतादात्म्यात्, विशिष्टपरमाणौ त्विमं पश्यामीत्यादिप्रत्यय रूप- फलाभावाच्चक्षुराद्ययोग्यत्वकल्पनं युक्तमेव, विशिष्टात्मनि तु ब्राह्मणं पश्यामीत्यादिप्रत्यय रूपफलबलाद्विजातीयश्चक्षुरादिसंयोगः 2 कल्प्यता- मिति – चेन्न; आत्मवृत्ति जातिविषयकत्वेनोक्तप्रत्ययस्य सन्दिग्घतया क्लृप्तेर्देह चक्षुः संयोगैरेव तन्निर्वाहेऽनन्तानां विजातीयसंयोगानां विशिष्टा- त्मनि कल्पने मानाभावात् । अथ – साक्षिणैवास्तु ब्राह्मण्यादिकं प्रत्यक्षं न चक्षुरादिनेति – चेन्न; परकीयात्मनि साक्षिणोऽसंबन्धात्, विशिष्ट- परमाणोरिव विशिष्टस्य पराभ्युपगतस्यैवात्मनोऽपि साक्ष्ययोग्यत्वात् । अथ - परमात्मनि ब्राह्मणत्वमनुष्यत्वादिकं विशुद्धयादिलिङ्गगम्यं न प्रत्यक्षम् ; स्वात्मनि त्वणावपि साक्षियोग्यत्वमापरोक्ष्यव्यवहारबलात्कल्प्य- मिति चेन्न; गोत्वाद्यपि सास्त्रादिलिङ्गगम्यं न प्रत्यक्षमित्यापत्तेः । प्रत्यक्षव्यवहारस्य साक्षिण्येव स्वीकारेणापरात्मनि तदभावात् । एतेन - - 3 1 संभवात्तत्राह -क. ग. 2 चक्षुराद्ययोग्यत्वसंयोगः – क. 3 स्वीकारेणै- वात्मनि- क. ख. ग.
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०६४
दिखावट