पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

94 सव्याख्यायामद्वेतसिद्धौ [प्रथमः - बुद्धया 'देहोऽहमिन्द्रिय 'मित्यैक्या ध्यासासंभवेऽपि ब्राह्मणादन्यः काण: काणादन्यो ब्राह्मण इति भेदबुद्धयभावेन ब्राह्म- णोऽहं काण इत्येकदा ऐक्याध्याससंभवात् समानप्रकारक- भेदधिय एव विरोधित्वात् । ननु – भेदमात्रस्याप्यध्यस्तत्व- वादिनस्तव देहात्मनोर्भेदस्याप्यव्यस्तत्वेन जीवब्रह्मणोरिव तद- भेदस्ताविक: स्यात्, मिथ्यात्वं ह्यधिष्ठानज्ञानाबाध्यात्यन्ता- भावप्रतियोगित्वम् । तद्भाध्यात्यन्ताभावप्रतियोगित्वस्य सत्वेऽपि (अ) संभवात् । अभेदश्च भेदात्यन्ताभाव इति कथं भेदमिथ्यात्वे अभेदः सत्यो न स्यात् ? न च देहस्याप्यध्यस्तत्वेन तेन सहा- त्मनो न भेदो नाप्यभेद इति – वाच्यम्; अध्यस्तादपि रूप्याच्छुक्तेः स्वज्ञानाबाध्य भेददर्शनादिति – चेन; भेदस्य मिथ्यात्वेऽप्यभेदो न तास्विकः, भावाभावयोरुभयोरपि मिथ्या- त्वस्य प्रागेवोपपादितत्वात् । इयांस्तु विशेषः यदत्राभेदो व्यव- हारकालीनेन परीक्षितप्रमाणभावेनानुमानादिना बाध्यते, भेदस्तु भावः । समानप्रकारकेति । ब्राह्मणस्याक्षि काण' मित्यादौ ब्राह्मणभेदविशिष्टेड क्षिणि काणत्वादि विशेषणम्, न तु काणत्वादि- विशिष्टे ब्राह्मणभेदः । अक्षित्वावशिष्टस्य तु ब्राह्मणत्वादिविशिष्टेऽध्यासो नास्त्येव । ब्राह्मणदेहो न काणः काणं चक्षुर्न ब्राह्मण इत्यादिधीम्तु काणो ब्राह्मण इति बुद्धौ न विरोधिनी । काणभेदाद्यंशे हि विशेष्य- तावच्छेदकं देहत्वादिकमेव, ब्राह्मणत्वादिकं तु तद्विशिष्टे विशेषणमिति भावः । सत्त्वेऽपि – स्वाश्रयसत्यत्वेऽपि । प्रागेवेति । स्वसमानाधि- करणस्य स्वान्यूनसत्ताकात्यन्ताभावस्य प्रतियोगित्वं मिथ्यात्वम् । प्रातीतिकात्यन्ताभावमादाय सिद्धसाधनस्य वारणाय स्वान्यूनसत्ताकेति । 1 ष्टाक्षिणि क. 2 काणभेदाद्यशैः–क. 6 ,