परिच्छेदः] देहात्मैक्याध्यासोपपत्तिः अथ देहात्मैक्याध्यासोपपत्तिः || 93 नन्वहमर्थस्यानात्मत्वे 'ब्राह्मणोऽहं काण' इत्यादि- प्रत्यक्षं देहेन्द्रियादा वात्मैक्याध्यासे प्रमाणं न स्यात् ; ऐक्यबुद्धा- वात्मनोऽविषयत्वादिति चेन्न; अहमित्यस्य द्वयंशत्वेन चिदंशे कर्तृत्वादिविशिष्टान्तःकरणैक्याभ्यासवत् ब्राह्मणत्वकाणत्वादि- विशिष्टदेहेन्द्रियाद्यैक्याध्यासेनात्मैक्यविषयत्व संभवात् । तथा चात्मनि देहेन्द्रियाद्यैक्याध्यासो युज्यत एव । नचैवं - देहात्मै - क्यस्य प्रत्यक्षत्वे तद्विरोध्यनुमानागमयोरप्रामाण्यप्रसङ्गः; वह्नि शैत्यानुमानवत्, श्रूयमाणार्थे ' यजमानः प्रस्तर' इत्यागमवच्च, तथा च न देहात्मनोर्भेदसिद्धिः स्यादिति – वाच्यम्; चन्द्र- परिमाणप्रत्यक्षविरोध्यनुमानागमादिदृष्टान्तेन प्रत्यक्षविरोधिनः परीक्षितागमानुमानादेः प्रामाण्यस्य व्यवस्थापितत्वेन तथापि तयोर्भेदसिद्धिसंभवात् । न च – परस्परभिन्नत्वेन निश्चितानां देहेन्द्रियादीनां युगपदेकात्मैक्याध्यासायोगः, न हि भिन्नत्वेन निश्चितयो रजतरङ्गयोरेकदैकशुक्तिकायामैक्याध्यास इति — वाच्यम्; 'देहादिन्द्रियमन्यत्' ' इन्द्रियाद्देहोऽन्य' इति भेद- - - अथ देहात्मैक्याध्यासोपपत्तिः चिदंशे – अज्ञानोपहितचिति । ननु तथापि न शुद्धात्मैक्या- ध्यासे तत्प्रमाणं तत्राह -- तथाचात्मनीति । उपहितात्मन्यैक्याध्यासे सिद्धे शुद्धस्योपहितानुस्यूतत्वेन भानाद्भासमानेऽप्यावरणस्योक्तत्वादु - पहितनिष्ठं शुद्धतादात्म्यं देहादावारोप्यत इति भावः । दृष्टान्तेनेति । चन्द्रप्रत्यक्षे दूरत्वादिरिव प्रकृतेऽप्यविद्यातन्मूलकवासनादिर्दोष इति
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०६१
दिखावट