पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [ प्रथमः तत्फलान्वायत्वात्, नाधिकरणम्, संमतवत् ॥ २ ॥ अज्ञानम्, ज्ञानसमा ज्ञाननिवर्त्यत्वात् ज्ञानप्रागभाववत् ॥ ३ ॥ '9 दुःखादिभोगः, मोक्षसमानाधिकरणः बन्धत्वात्, संमतवदि- त्याद्यनुमानैरात्मनः कर्तृत्वसिद्धिरिति – वाच्यम्; आद्यानुमाने आरोपितानारोपितसाधारणकृतिमत्त्वं वा साध्यम्, अनारोपित- कृतिमत्त्वं वा । आद्ये इष्टापत्तिः, द्वितीये जातेष्टिपितृयज्ञजन्य- फलान्वयिनि व्यभिचारः । द्वितीयानुमानेऽप्यारोपितानारोपित- साधारणज्ञानाधिकरणवृत्तित्वं वा, अनारोपितज्ञानाधिकरण- वृत्तित्वं वा । अत्राप्याद्ये इष्टापत्तिः, द्वितीये अनादिभावभिन्नत्व- स्योपाधित्वम् । तृतीयानुमाने आरोपितानारोपितसाधारण- संबन्धेन मोक्षसामानाधिकरण्ये इष्टापत्तिः, अनारोपितसंबन्धेन सामानाधिकरण्ये साध्याप्रसिद्धिः । तस्मात्सिद्धं मनसः कर्तृत्व- मात्मन्यारोप्यत इति ॥ इत्यद्वैतसिद्ध कर्तृत्वाध्यासोपपत्तिः ॥ 92 , रूपेण करणत्वसंभवात्, सामग्रया: करणघटितत्वात् । फलान्वयि- त्वादिति । यो यत्फलवान् स तत्साधनक्कृतिमानिति व्याप्तिर्बोध्या । अनारोपितेति । धर्मिसमानसत्ताकेत्यर्थः । द्वितीये – द्वितीयेऽपि । साध्याप्रासाद्वेरिति । धर्मिसमानसत्ताक संबन्धनिवेशेऽपि सिद्धसाध- नम् ; अहमर्थरूपधर्मिसमानसत्ताक वस्य सिद्धत्वात् आत्मसमान- सत्ताक संबन्धनिवेशे त्वप्रसिद्धिरिति भावः ॥ 1 तर्के: सारस्वतै रनैश्चन्द्रिकाचन्द्रभूषणैः । दुरन्तध्वान्तभङ्गाय कर्तृत्वाद्यात्मनोऽस्वतः ॥ इत्यद्वैतसिद्धव्याख्यायां गुरुचन्द्रिकायां कर्तृत्वाध्यासापपत्तिः ॥ 1 सत्ताकस्य -ग.