पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] कर्तृत्वाध्यासोपपत्तिः 6 - च - तदापि श्वासादिकर्तृत्वं दृश्यत एव, सुषुप्तौ 'भूर्भूरित्येव प्रश्वसिती' ति श्रुतेरिति वाच्यम्; 'न तु तद्वितीयमस्ती 'त्यादि- श्रुत्या तं प्रति श्वासस्यैवाभावेन तत्कर्तृत्वस्य सुतरामसंभवात् । यद्वा – क्रियाशक्तिप्राधान्येन प्राणात्मकस्यान्तःकरणस्य तदापि सवेन तदुपाधिककर्तृत्वस्य तदापि सत्त्वात् । तथाच श्रुतिरन्य- परा | दर्शनं च द्रष्ट्रविद्याकल्पितश्वासादिविषयम् । इदं च दृष्टिसृष्टिवाद एव समर्थितम् । 'कामः सङ्कल्प' इत्यारभ्य 'हीर्धीर्भीरित्येतत्सर्वं मन एवे' त्यन्ता श्रुतिरपि मनसः कर्तृत्वपरा, न तु मनसो निमित्तत्वपरा | न च – 'मनसा वा अग्रे सङ्कल्पयती' त्यादिश्रुत्या 'आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहु- र्मनीषिण' इत्यादिश्रुत्या च मनसः करणत्वमिति - वाच्यम्; मनोव्यतिरिक्तस्य सङ्कल्पानाश्रयत्वेन 'मनसा वेति श्रुतेरुप- चरितार्थत्वात् । नापि ।। १ ।। आत्मा, मोक्षसाधनविषयकृतिमान्, मेव कल्प्यते, 1 कार्याश्रयनिष्ठत्वेनान्तरङ्गत्वात्, न तु निमित्तत्वम् ; आत्मा तु कार्यमात्र विवर्तोपादानमेव; परेणापि ज्ञेयमात्रस्य ज्ञान- संबन्धो वाच्य एव ; तथा च मनसो निमित्तत्वमात्मन उपादानत्वं चेति कर्तृत्वादावुभयं परेण वाच्यम्, मया तु मनस उपादानत्वमेवेति मे लाघवमिति भावः । अन्यपरेति । 'देवाः परमात्मानं भूरित्युपासां- चक्रुः, तस्माद्वै वैतर्हि सुप्तः पुरुषो भूर्भूरित्येव प्रश्वसिती' तिश्रुतौ तस्मादित्यायुपासनास्तुतिपरमित्यर्थः । दृष्टिसृष्टिपक्षे तेन पमात्रा अज्ञात- तत्प्रमाणाद्यसंभवेऽपि पक्षान्तरे तत्संभव इत्याशयेनाह – यद्वेति । उपचरितार्थत्वादिति । उपलब्धौ मनसः करणत्वेऽपि सङ्कल्पादौ तद - भावान्मनः पदं मनोगतायाः सङ्कल्पादिसामग्रया बोधकमिति भावः । वस्तुतो मनसः सङ्कल्पादौ तत्सामग्रयुपहितरूपेण करणत्वं प्रकृतेऽर्थः । अत एव 'मनसैव मनो जये' दिल्यादावपि नानुपपत्ति: ; सामग्रघुपहित- 1 कार्याश्रयानिष्ठत्वेन – क. 91