पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

90 सव्याख्यायामद्वैतसिद्धौ [प्रथमः स्वरूपानतिरकेण धर्मत्वाभावेन व्याहत्यभावात् । यत्त्वसत्यस्य सत्यस्य वा ज्ञातृत्वस्यात्मन्यपि संभव इत्युक्तम्, तदिष्टमेव ; न ह्यारोपितमपि कर्तृत्वमात्मनि प्रतिषेधामः । न च - निर्विकारत्वं द्रव्यान्तररूपतया परिणामाभावपरम्, न तु विशेषाकाराभावपरम्, तच्चात्मनः कर्तृत्वादिसवेऽप्यविरूद्ध- मिति – वाच्यम् ; द्रव्यान्तररूपतया परिणाम निषेधकमपीदं वाक्यं निर्धर्मकश्रुत्यनुसारेण विशेषाकारमात्रस्यैव निषेधपरम्, सामान्यनिषेधेनैव विशेष निषेधप्राप्तेः । नापि - निष्क्रियत्वे क्रिया परिस्पन्दो वा धात्वर्थो वा । आद्ये इष्टापत्तिः, द्वितीये आत्मन्यप्य- स्त्यादिधात्वर्थरूपसत्तादेः सत्त्वेनासिद्धिरिति – वाच्यम् ; ब्रह्मण एव सद्रूपत्वेन तत्र सत्तादेरप्यभावात्, क्रियापदस्य कृतिपर- त्वाच्च । अत एव मनसोऽभावे सुषुप्तौ कर्तृत्वाद्यदर्शनम् । न 1 धर्मत्वाभावेनेति । धर्माभावत्वविशिष्टरूपेण धात्वर्थस्य कल्पितत्वेन घर्माभावसाधारणधर्म सामान्यस्याभावबोधनद्वारोक्तश्रुतेरखण्डबोधकत्वेना- व्याहतिरिति भावः । प्रतिषेधामः नाङ्गीकुर्मः । तदिष्टमिति । न चासत्यपदं व्यावहारिकार्थकमतो नेष्टमिति - वाच्यम्; सुखादे रिव ज्ञातृत्वादेरपि व्यावहारिकस्यैव ममेष्टत्वात् । सामान्यनिषेधेन- परिणामसामान्यनिषेधेन । विशेषनिषेधेति । द्रव्यान्तररूपेण रूपान्त- रेण च परिणामस्य निषेधेत्यर्थः । ब्रह्मण एव – आत्मन एव, पार- मार्थिकी सत्ता स्वरूपभूता न तु धर्म इति भावः । नन्वात्मस्वरूपसत्ता न घात्वर्थः ; मायावच्छिन्नचित्त्वेन बाध्यत्वेन वा घातुशक्यतावच्छेद- केनोपहिता सत्ता शुद्धात्मन्यस्त्येव ; तत्राह – क्रियापदस्येति । अदर्शनमिति । अन्वयव्यतिरेकदर्शनेन मनसः कर्तृत्वादावुपादानत्व - 2 -- 2 आत्मनः पार-ग. 3 मायावच्छिन्नत्वेना-ग. 1 धर्मत्वस्य - क. ग. -