पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

86 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः न चैवं सत्यत्वमपि तत्र न स्यात्, तथाच 'सत्यं ज्ञान- मनन्तम्' इत्यादिश्रुतिव्याकोप इति वाच्यम्; अधिकरणा- तिरिक्ताभावानभ्युपगमेन उक्तमिथ्यात्वाभावरूपसत्यत्वस्य ब्रह्म- स्वरूपाविरोधात् । एतेन स्वप्रकाशत्वाद्यपि व्याख्यातम् – परप्रकाश्यत्वाभावो हि स्वप्रकाशत्वम् । कालपरिच्छेदाभावो नित्यत्वम्, देशपरिच्छेदाभावो विभुत्वम्, वस्तुपरिच्छेदाभा- वः पूर्णत्वमित्यादि । तथाच भावभूतधर्मानाश्रयत्वेऽपि ब्रह्मणः सर्वधर्माभावरूपतया न काऽप्यनुपपत्तिरिति सर्वमवदातम् ।। इति द्वितीयमिथ्यात्वविचारः.


तृतीयमिथ्यात्वविचारः. ज्ञाननिवर्त्यत्वं वा मिथ्यात्वम् । ननु उत्तरज्ञाननिवर्से पूर्वज्ञाने अतिव्याप्ति: मुझरपातादिनिवर्त्यै च घटादावव्याप्तिः । योगित्वस्य नासति सम्भवः', तस्योक्तव्यावहारिकत्वादिरूपतद्धटका- भावात् । एवंच अस्तु सन्मात्रेत्यत्र विषयत्वमात्रव्यापकत्वनिवेशः, उक्त विषयकत्वव्यापकत्वनिवेशे प्रयोजनाभावात् । किञ्च विभिन्नसत्तेत्यादिना तव लालनमात्रं कृतम् । तथाचातिलाघवात् भावाभावयोर्विरोध एव न स्वीक्रियतां उक्तरीत्या तस्य निष्प्रयोजनत्वात् । यदुक्तं सत्ताभेदेत्यादि, तन्न' ; सत्ताभेदस्यानुमितेः पूर्वमसिद्धावपि मिथ्यात्वस्य विप्रतिपन्नत्वेन भावाभावविरोधस्यापि विप्रतिपन्नत्वेन मिथ्यात्वानुमितौ प्रतिबन्धकाभा- वात् पश्चात्तत्रा' प्रामाण्यशङ्कायाः सत्ताभेदकल्पनया निराससम्भवात् || ' तथा विद्वान्नामरूपाद्विमुक्तः, ज्ञात्वा देवं मुच्यते सर्वपाशै : ' इत्यादिश्रुत्यर्थनिर्णयाय साध्यान्तरमाह – ज्ञाननिवर्त्यत्वमिति । पूर्व- 1 संबन्धः. 2 कारणेषु शक्तिस्वीकारे 3 तत्र.