पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] तृतीयमिथ्यात्वनिरूपणम् ज्ञानत्वेन ज्ञाननिवर्त्यत्वविवक्षायामप्ययं दोषः, अधिष्ठानसा- क्षात्कारत्वेन निवर्त्यै शुक्तिरजतादौ च ज्ञानत्वेन ज्ञाननिव- र्त्यत्वाभावात् साध्यविकलता | ज्ञानत्वव्याप्यधर्मेण ज्ञाननि- वर्त्यत्वविवक्षायां ज्ञानत्वव्याप्येन स्मृतित्वेन ज्ञाननिवर्त्ये संस्कारे अतिव्याप्तिरिति चेष; ज्ञानप्रयुक्तावस्थितिसामान्य- विरहप्रतियोगित्वं हि ज्ञाननिवर्त्यत्वम् । अवस्थितिश्च द्वेधा- स्वरूपेण कारणात्मना च, सत्कार्यवादाभ्युपगमात् । ज्ञाने। तन्निष्ठोत्तरज्ञाननिवर्त्यत्वे | मिथ्यात्वलक्षणस्यातिव्याप्तिः । तेन पूर्व- ज्ञानस्य मिथ्यात्वलक्षण लक्ष्यत्वेऽपि न क्षतिः । अथवा अतिव्याप्तिः सिद्धसाधनम् । अवस्थितीति । स्वात्मकेत्यर्थः । स्वरूपेण घटादिस्थू- लरूपेण । कारणात्मना कारणगतसूक्ष्मावस्थया । सत्कार्येति । कार्याणां पूर्व पश्चाच्च आ तत्त्वदर्शनं स्वात्मकावस्थाभ्युपगमादित्यर्थः । पराङ्गी- कृतध्वंसप्रागभावयोरेव तथात्वेनाऽगौरवात् एकस्मिन् कनके जायमान- कटकमुकुट योरेकत्रापरध्वंसप्रागभावत्वस्वीकारादतिरिक्तकल्पने मानाभा- वात् कटकमेव मुकुटं जातमिति तादात्म्यानुभवात् “तद्धेदं तर्क्ष- व्याकृतमासीत्, भूतग्रामस्स एवायं भूत्वा भूत्वा प्रलीयते” इति श्रुति- स्मृतिभ्यां तथा प्रतीतेश्च । अन्यथा पूर्वापरकालावाच्छन्नस्वसमवा- यिगतस्वात्यन्ताभावत्वादिविषयकत्वेनैव प्रतीत्युपपत्तेरतिरिक्तप्रागभावध्वं- सयोः असिद्धेः प्रागभावो नष्टः ध्वंसो जात इत्यादिप्रत्ययानां व्यञ्जकनाशादिविषयकत्वेनोपपत्तेः । न च तौ विना पूर्वोत्तरत्वादि- कमेव दुर्वचमिति वाच्यम् । तावता पूर्वत्वादेरेवाखण्डस्य सप्र- तियोगिकस्य स्वीकर्तुमुचितत्वात् तयोः कल्पने प्रागभावत्व- ध्वंसत्वादेरतिरिक्तस्य कल्पनेन गौरवात् । प्रातिभासिककटकादावव्याप्तिः तन्निवर्तकज्ञानस्य तन्निष्ठप्रातिभासिक- अथ प्रकृतलक्षणस्य 1 अमिथ्यारूपेण घटादिस्थूललक्षण. पा. , 87