पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] द्वितीयमिथ्यात्वानरूपणम् 85

प्रत्यक्षबाधितत्वात् " इति, तन्न; शुक्तिरजतादेः स्वामस्य चाभावे ' उक्ताविरोधत्वाभावेन सामान्यतस्तदभावात् । अथ शुक्तिरजतादेः मन्मते असत्त्वात् न तत्सामानाधिकरण्यं तदभावे इति चेत्तर्हि तद- धिकरणाप्रसिद्धया तद्घटितविरोधित्वमपि तदभावे नास्तीति क सामा- न्यतो विरोधवार्ता । यो यो यद्विरेधी स तदभाववृत्तिरिति नियमो न नोऽनिष्टः', ब्रह्मस्वरूपाभावमादाय तत्सम्भवात् । यत्र यत्र यदभावप्र- तियोगित्वं तत्र तदभावविरोधित्वमित्यपि न नियमः ब्रह्मस्वरूपाभा- बस्याधिकरणाप्रसिद्धेः, अधिकरणमेवाभाव इति मते अवृत्तिगगनादि- रूपाभावाधिकरणाप्रसिद्धेश्व, घटादेः पटादिरूपस्वाभावेन भूतलादौ सहभावाच्च । शुक्तिरूप्यादे: स्वाभावाभावस्य अधिकरणाप्रसिद्धेश्च । असतो न स्वाभावाभावत्वं मानाभावादिति चेत्तर्हि सतो नाभावो मानाभावात् निर्धर्मकत्वाद्युक्तयुक्तिभिस्तस्याभावप्रतियोगित्वासम्भवात् । अतएव सिद्धान्तबिन्दौ न हि शशविषाणाभावो ज्ञायत इत्युक्तं चरमश्लोके । शशशृङ्गं नास्तीत्यस्य शशे शृङ्गाभाव इत्यर्थ इति मणिकारः, किं तर्हि तल्लक्षणामति चेन्नकिञ्चित् । तर्हीतरव्यावृत्त्या तन्न प्रतीयेतेति चेन्न प्रतीयत एव । अतएव सङ्ख्यामभावो निरू- प्यत इत्युक्तम् । सद्भयामित्यस्य धर्मिप्रतियोगिभ्यामिति विशेष्यं यदि तत्तथा प्रतीयते तदा ' शब्दज्ञानानुपाती वस्तुशून्यो विकल्प:' इति पातञ्जलसूत्रे असद्ज्ञानमात्रस्य शाब्दत्वोक्तेः निर्धर्मकत्वादि- विरहात् तत्तद्धीविषयत्वादेरितरव्या वृत्तत्वानिश्चयेन व्यभिचारसम्भवाच्य 'नानुमित्या, किन्तु शब्देन, तत्र च न लक्षणमपेक्षते, सत्त्वेन प्रती- त्यनर्हत्वस्य लक्षणत्वसम्भवाच्च । किंच वैशेषिकविशेषवत् निर्धर्म- कस्यासतः स्वत एवेतरव्यावृत्तिसम्भवात् न लक्षणापेक्षा । एवंचास- त्यतिव्याप्सुयद्भावनमसङ्गतमेव । किंच स्वान्यूनसत्ताकात्यन्ताभावप्रति- 1 तन्निष्ठ: 2 असतो. 3 निर्धर्मकत्वाद्धत्वादेि. 'नानुमित्यादिना इति पा. $