परिच्छेदः] अहमर्थानात्मत्वोपपत्तिः 63 एकत्रैव वाक्ये उपक्रमादिकल्पनेनार्थान्तरकल्पनात्, कल्प्य मानस्य च प्रकृतार्थानुपपादकत्वात् सर्वगता जातिरिति , चास्तात्यपंवादकोऽतसुच्प्रत्ययो विहितः, 'उपर्युपरिष्टा' दिति सूत्रे चोर्ध्वशब्दस्योपादेशो रिलिष्टातिलौ च प्रत्ययावस्तातर्विषये विहिताः, तथाचाघस्तादित्यादेरघरे अधरादित्याद्यर्थकत्वमपि ; तथापि पूर्ववाक्यानु- सारण प्रकृते सार्वात्म्यपरत्वनिश्चयादधरमित्याद्यर्थकत्वम् तथाचाघरो देश: कालो दिक् स एवेत्याद्यर्थपर्यवासनम् । अत्र निश्चितोपक- मस्यैवोपसंहारस्थार्थनियामकत्वात् परमते पूर्ववाक्यानुसरणानादरेऽपि सन्दिग्धार्थकोपक्रमस्य नोपसंहारनियामकत्वम्, किंतुवाक्यशेषेण 'स एवेदं सर्व मित्यनेनैव निर्णीतार्थ केनोपक्रमस्यार्थनिर्णय इत्यपि बोध्यम् || , एकत्रैव – ' स एवाघस्ता' दित्यादावेव | पूर्ववाक्यमननुसृत्य - स्येवकारार्थः । 'तरति शोकमात्मवित्' 'एष तु वा अतिवदति यः सत्येनातिवदति ' ' सुखं भगवो विजिज्ञासे भूमैव सुखं नाल्पे सुखम्, यत्र नान्यत्पश्यति स भूमे ' त्यादिपूर्ववाक्यपर्यालोचनेनाज्ञाते सत्यसुखापरिच्छिन्नाद्वितीयात्मन्येव सप्तमप्रपाठकतात्पर्य निश्चय इति भाव: । अर्थान्तरकल्पनात् सर्वगतत्वमात्रस्यार्थस्य कल्पनाया असंभवात् । प्रकृतार्थेति – अद्वितीयभूमात्मैक्येत्यर्थः । स एवा- घस्तादि ' त्यादेः सर्वगतत्वपरत्वेऽपि न परेष्टस्य भूमात्मनोर्भेदस्य सिद्धिः ; स एवाह मेवात्मवत्येवकारत्रयेणाधारादिषु भूमाद्यन्ययोगव्यवच्छेदबोधने ' भूमादित्रयैक्यस्य पर्यवसानादित्यपि बोध्यम् ननु -- 'अन्यो ह्यन्य- स्मिन्प्रतिष्ठित' इति वाक्यं नोक्तरीत्या भूनि प्रतिष्ठितत्वनिषेध हेतु- भूतस्य द्वैतभावस्य + बोधकम्, किंतु भूमा नान्यप्रतिष्ठितः ; अनादिषु साक्षादसंबन्धात्कार्येषु तादात्म्यात् यो हि यस्मादत्यन्तभिन्न : ' स तत्र प्रतिष्ठित उच्यते, यथा राजा गजादा वित्येतदर्थपरम्; तत्राह - सर्वेति । 1 मनुसृत्ये -ग. 2बोधनेन -ग. अनिषेधे- ग. 'द्वैतभावस्य - क. ख. न्ताभिन्न - क. - ,
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०३१
दिखावट