पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

64 [ प्रथमः सव्याख्यायामद्वैतसिद्धौ भूम्रोऽप्यन्याधिष्ठितत्वसंभवात्, पक्षे व्यापकजातेरिव 'सर्व समानाषी ' त्यादिश्रुतेः सार्वात्म्यपरत्वस्योपपादितत्वात् । नापि मध्येऽहंकारोपदेशवैयर्थ्यम् ; ब्रह्मण आपरोक्ष्यायाहंकारैक्योक्तेः । सर्वजातीयसर्वेत्यर्थः । घटत्वादिजातिस्तादात्म्येन घटादौ स्वरूपसंबन्धेन चान्यत्र यथा संबद्धा, तथा परमते भूमा कार्यमात्रे तादात्म्येनानादिषु स्वज्ञानविषयत्वादिसंबन्धेन संबद्ध इति जातेरिव भूम्नः सर्वप्रतिष्ठितत्वं न विरुद्धम् । कार्यरूपान्यप्रतिष्ठितत्वं तु नतरां विरुद्धमिति नोक्तार्थ- परमुक्तवाक्यमिति भावः । अथवा – भूमान्य एवान्यत्र प्रतिष्ठितो न तु भूमा; व्यापकत्वात्, यद्धेि क्वचिदेव संबद्धं तत्प्रतिष्ठितमुच्यते इत्येतत्परा - 6 ● यदि वा नो महिम्नी' त्याद्य ' न्यो ह्यन्यस्मिन्प्रतिष्ठित' इत्यन्तश्रुतिः 6 'स्वे माहान प्रतिष्ठित' इति तु सर्वव्यापकत्वपरमित्याशयेन स एवे- त्यादिना व्यापकत्वमुपपादितम् । तथाच सार्वात्म्यपरत्वोक्तिर्न युक्ता, 6 -- , यत्र नान्यत्पश्यती' त्यादिकं तु यत्र विषये नान्यत्कर्तृ पश्यतीत्याद्यर्थ- कतया भूम्नो दुर्जेयतापरम्, तत्राह - सर्वगतेति । तथाच जात्यादौ सर्वप्रतिष्ठितत्वव्यवहारात् कचिदेव संबद्धं प्रतिष्ठितशब्दार्थ इत्यसिद्धम् । किंच 'स्वे महिम्नि प्रतिष्ठित' इत्यनेन सर्वव्यापकत्वोक्तौ 'यदि वा नो महिनी ' त्यनेन सर्वाव्यापकत्वमुच्यत इति वाच्यम्; भावाभावयोरेव ताभ्यां प्रतीयमानत्वात् अन्यथा यदि वेत्यनेन कचिदेव संबन्धत्वा- भावस्य सर्वव्यापकत्वपर्यवसन्नस्य बोधने पौनरुक्तचापाताच्च । तथाच परमते सर्वव्यापकत्वतदभावयोर्विरोधेन बोध्यत्वं न संभवति, निष्प्र- योजनं चेति भावः । उपपादितत्वादिति । सम्यक् अभेदान्यसंबन्ध- विलक्षणेन तादात्म्येन आप्नोषि संबध्यसे ततो हेतोः सर्वोऽसीत्यर्थ- स्योपपादितत्वादित्यर्थः । श्रुतिविरोधेन उक्तरीत्या भूमात्मैक्यश्रुति- विरोधेन । सार्वात्म्यपरत्वमिति | व्यापीत्यस्य सर्वतादात्म्यपरत्वात्सर्व-