पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभ्याख्यायाम द्वैतसिद्धौ [प्रथमः नास्तीत्येतदर्थपर'अन्यो ह्यन्यस्मिन् प्रतिष्ठित ' इति पूर्ववाक्या- नुसारेण ' स एवाधस्ता' दित्यादेरपि सार्वात्म्यपरत्वे निश्चिते 62 काड्ङ्क्षायामिति शेषः । अन्यो ह्यन्यस्मिन्निति | सत्यद्वयं चेत्तदा भूम- स्वमेव व्याहतम् । उक्तं च पूर्वमेव 'यत्र नान्यत्पश्यती' त्यादिना वाक्ये - नाद्वैतब्रह्मणो भूमस्वरूपत्वम् । अतः सत्यस्य भूमान्यस्याभावाद्भूनो नान्यप्रतिष्ठितत्वं परमार्थत इति श्रुत्याशय इति भावः । पूर्ववाक्या नुसारेणेत्यादि । पूर्ववाक्यादद्वितीयतया ब्रह्माण प्रमिते तच्छेषीभूतं भूमात्मनोरैक्यं स एवेत्यादिनोच्यत इत्यवश्यं वाच्यम्; अन्यथा पूर्वा परवाक्यैवैयर्थ्यात् । न हि पूर्वापरवाक्ये उपास्यत्वेन भूमानं आत्माभि न्नभूमानं वा प्रतिपादयतः, येनोपासनापरत्वेन तत्सार्थक्यमुच्येत । तल्ल क्षणाम्वीकारेऽपि ' श्रुतकल्पनादृष्टार्थत्वसंभवेऽदृष्टार्थकोपासनापरत्वे वम् । द्वैतसामान्यविरोध्यद्वैतस्य ज्ञाने उपासनाया असंभवश्चेति भावः । निश्चित इति । ' स एवाधस्ता 'दित्यादावधस्तादित्यस्याधरमिति, उप- रिष्टादित्यस्योर्ध्वमिति, पश्चादित्यस्यापरमिति, पुरस्तादित्यस्य पूर्वमिति, दक्षिणत इत्यस्य दक्षिणमिति, उत्तरत इत्यस्योत्तरमित्यर्थः ॥ 1 गौर- यद्यपि ' दिक्छब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्ता- ति'रिति सूत्रे सप्तम्याद्यन्तेभ्यो दिशि रूढेभ्यो दिग्देशकालेषु वर्तमानेभ्यो अस्तातिप्रत्ययः स्वार्थे विहितः, 'पूर्वाधरावराणामसिपुरधवश्चैषा' मिति सूत्रेण च पूर्वादिभ्योऽसिप्रत्ययोऽस्ताद्यर्थे विहितः, तद्योगे तेषां क्रमेण पुरादय आदेशाश्च विहिताः, ' अस्ताति चे'ति सूत्रेण चास्तातियोगेऽपि तेषां पुरादय आदेशा विहिताः, तत एव ज्ञापकाच्च नासिप्रत्ययस्यास्ता- तिप्रत्ययबाधकत्वम्, ‘ पश्चा' दिति सूत्रे चापरशब्दस्य पश्चभावोऽस्ता- त्य आतिप्रत्ययश्च विहितः, 'दक्षिणोत्तराभ्यामतसु' जिति सूत्रे श्रुतहान्यश्रुत - क. ग. 1