पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] अज्ञानवादेऽज्ञान विषय निरूपणम् 4 रेव तदवच्छिन्नज्ञाननिवर्त्यत्वस्य फलबलेन स्वीकारात् । अव- तमस इव विषयप्रकाशकालोकस्य सर्वतमोऽनिवर्तकत्वेऽपि किंचि- त्तमोनिवर्तकत्वम् । तस्मात्सिद्धमाश्रयत्वविषयत्वभागिनी शुद्ध- चिदिति । एतेन – देहादिभेदो वा अभोक्तृत्वाद्यभेदो वा ब्रह्मा- भेदो वा अद्वितीयमात्राभेदो वा तद्विशिष्टात्मा वा न ताद्वेषयः; रविद्यापरिणामत्वख्यापनायोक्तमिति तात्पर्यार्थ इति भावः । वस्तुतो वृत्तीत्यन्तमभिव्यक्तिक्रियाविशषेणम् | जीवाकारा अहंवृत्तिर्यस्यां ताह- श्याः साक्षिरूपाभिव्यक्तेविषयो वृत्तिज्ञानरूपेण परिणतमनसा संसृष्टं चैतन्यमिति वाक्यार्थ इत्याशयेन तयेति तृतीया सहार्थिकोक्ता । यदि चाहंवृत्तिरूपेण परिणतमनसेति यथाश्रुतार्थे आग्रहः, तथापि सा वृत्तिरुक्तयुक्तया न प्रमेति नाविद्यानिवर्तिकेति ध्येयम् । उक्तवृत्ताव- विद्यान्यदोषश्चेदपेक्षते तदाऽहमर्थ एव तथा बोध्यः । तदवच्छिन्नेति । घटाद्यवच्छिन्नचिदित्यर्थः । अवतमस इवेति । क्षीणतमोगतेत्यर्थः । आलोकस्येति । घटावच्छिन्न' चिज्ज्ञानस्येति शेषः । यथाऽवतमसस्थ- घटादावालोकस्य गाढतमोरूपसर्वतमोनाशकत्वं नास्ति, गाढतमस एवाभावात् तथावच्छिन्नचिदाकारज्ञानस्य न मूलाज्ञानरूपसर्वतमो निवर्तकत्वम् ; शुद्धाकारचरमवृत्तेरेव मूलाज्ञानसमानविषयकत्वात् । उपाध्यविषयकत्वे सति चिद्विषयकत्वं हि तयोः समानविषयकत्वमित्या- युक्तं मिथ्यात्वानुमान इति भावः ॥ , अभोक्तृत्वाद्यभेदः–भोक्तृत्वाद्यभावत्वविशिष्टचिदभेदः । अभा वस्याधिकरणरूपत्वेन चित्युक्तविशिष्टत्वोक्तिः । तद्विषयः मूलाज्ञान_ 1 घटाद्यवच्छिन्न -ग.