पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सध्याख्यायामद्वैतसिद्धी 44 [ प्रथमः - - - त्तिव निरस्ता; अन्यथा सोऽयमित्यत्राप्यगतेः । किंच जीवविषया वृत्तिरविद्यावृत्तिः, न तु प्रमाणवृत्तिः, तस्या एवा- ज्ञानविरोधित्वात् । तदुक्तं विवरणे – 'जीवाकाराहंवृत्तिपरिणता- न्तःकरणेन जीवोऽभिव्यज्यत' इति । अस्यार्थः - जीवाकारा- हंत्वप्रकारिकाविद्यावृत्तिः, तया परिणतान्तःकरणेनान्तःकरण- परिणामभूतज्ञानरूपवृत्तिसंसर्गेण जीवोऽभिव्यज्यत इति । न च – घटोऽयमिति ज्ञानेन चरमवृत्तिनिवर्त्याज्ञानमपि निवर्त- - तामिति – वाच्यम्; तदवच्छिन्नाज्ञातत्वप्रयोजकाज्ञान विशेषादे- प्रमात्वेन सामान्यतो नाशकत्वस्यापि स्वकिारादाघष्ठानप्रमासामान्यनि- वर्त्यत्वयोग्यत्वस्य प्रपञ्चेऽनपायान्न सत्यतापत्तिरिति भावः । विशे षनिवर्तकत्वेऽपि शक्तिविशेषानादरे दोषमाह - अन्यथेति । अग- तेरिति । तत्तेदत्वोपहितयोस्तादात्म्यस्योक्तरीत्याधिष्ठानत्वासंभवात्तत्प्रमा- त्वेन' नाशकत्वे गौरवाच्च शक्तिविशेषेणैव विशेषतो नाशकत्वं युक्त मिति भावः । यथाश्रुते मनोवृत्तेरहमाकारत्वप्रती तेर्व्याचष्टे - अस्यार्थ इति । तयेति । अभिव्यज्यत इति । क्रियायां कर्तृपदं व्यङ्ग्य- तावच्छेदकमहमर्थत्वमाह–परिणतान्तःकरणेनेति । सौषुप्तसूक्ष्मावस्थया परिणतमनः सं सृष्टस्याव्यङ्ग्यत्वाज्ज्ञानरूपेत्युक्तम् । तथाचोक्तवृत्तिश्च परिणतान्तःकरणं च तत्तथा तदभेदेनाभिव्यज्यत इति शब्दार्थः । अहमा कारवृत्तिरविद्यावृत्तिरेव ; अप्रमायामविद्याया एव परिणामित्वेन क्लृप्तत्वात्, प्रमायां प्रमाणव्यापारसहकृतस्यैव मनसः परिणामितया क्लृप्तत्वादहमर्थे चक्षुरादिसर्वप्रमाणव्यापारासंभवात् । तस्मावृत्यन्त मविद्यावृत्तिरूपव्यञ्जका निर्देश:, अन्तःकरणेत्यन्तं तु व्यङ्ग्यस्य मनो वच्छिन्नचिद्रूपस्य प्रमाणसामान्यव्यापारशून्यताख्यापनद्वारा व्यञ्जकवृत्ते- 1 तत्प्रमाणत्वेन - क. -