परिच्छेदः] अज्ञानवादेऽज्ञान विषय निरूपणम् 43 , कारणविशेषजन्यत्वेन विशेषेण निवर्तकत्वे श्रवणवैयर्थ्य सस्यताप- एकस्यां शुद्धव्यक्तौ भेदकरूपकाज्ञानस्य तत्तेदंत्वविषयकस्वे मानाभावेन व्यक्तिस्बरूपाखण्डैषयविषयकत्वेन तन्निवर्तकज्ञानस्यापि तदौचित्यात् । न चोक्तभेदस्य तत्तेदंत्वोपहितप्रतियोग्यनुयोगिकत्वात्तज्जनका ज्ञानमप्युप- हितयोरैक्यविषयकम्, न तु व्यक्तिमात्ररूपाखण्डक्यविषयकामिति – वाच्यम् ; उपहितयोर्हि भेदसहिष्णुतादात्म्यमपि नास्ति दूरे भेदासहि- ष्ण्वैषयम् । न हि घटाकाशं पटाकाशमिति तादात्म्यप्रमा, किंतु घटाकाशमाकाशमिति । उक्ततादात्म्यम्वीकारेऽपि तस्य भेदाविरोधित्वेन न भेदजनकाज्ञानविषयत्वम् । न ह्यत्यन्ताभेदे तादात्म्यादिसंसर्गप्रमा | घटो घटः तद्व्यक्तिस्तद्व्यक्तिरिति संसर्गबुद्ध्यननुभवात् । तथाचोक्त- भेदः शुद्धव्यक्तिप्रतियोग्यनुयोगिक; नायं स इत्या कारस्तु तत्तदंत्वयो- रुपलक्षणत्वमात्रेण, न तु भेदधीविषयत्वेन । न चैवं - - प्रतियोगितानु- योगितावच्छेद कराहित्येन भेदघीरेव न संभवतीति — वाच्यम् ; प्रतियोग्यशे ह्यप्रकारस्य न प्रतियोगितावच्छेदकत्वेन भानम् । तथाच प्रतियोग्यंश इव प्रतियोगिता रूपसंबन्धांशेऽप्यवच्छेदकस्योपलक्षणत्वम् ; न तु तदवच्छिन्नत्वेन प्रतियोगिताभानम् । अत एव शुद्धब्रह्मण्या नन्दचिद्रूपभेदः कल्पितः संगच्छते । एवं च शुद्धव्यक्तिरूपैक्य विषयकाज्ञाननाशक मुक्तवाक्यजज्ञानमुक्तविषयकमेवेति सामग्रीविशेष - जन्यत्वमज्ञानीवशेषनाशकत्वे प्रयोजकम् । न च – गौरवमिति - वाच्यम् ; न ह्युक्तजन्यत्वेन नाशकता, किंतु शक्तिविशेषेणेत्याश- येनाह – कारणेति । चैत्रो ब्रह्मेति वाक्यजबुद्धयाऽज्ञानानिवृत्तेः शक्तिविशेषेण मूलाज्ञाननाशकत्वावश्यकत्वात्करणविशेषादिनिवेश गौरवं नेति भावः । सत्यतापत्तिश्चेति । शक्तिविशेषतो नाशकत्वेऽपि -- 11 1 शक्तिविशेषेण विशेषतो-क. ग. -
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०११
दिखावट