पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथमः -- अ- तेषामात्ममात्रत्वे उक्तदोषात्, भिन्नत्वेऽद्वैतक्षतेः, आवि- द्यकत्वेऽन्योन्याश्रयादित्यनुक्तोपालम्भनमपास्तम्; ब्रह्माभेदादेरा- त्ममात्रतापक्षे तस्याज्ञानविषयत्वमेव, दोषस्य परिहृतत्वात् । यत्तु प्रसङ्गादुक्तम् – द्वितीयाभावोपलक्षितात्मनोऽज्ञानविषयत्वे तादृशस्यैव चरमवृत्तिविषयत्वं वाच्यम्; तथाच वेदान्ताना- मप्युपलक्षणरूपप्रकारयुक्तोक्तात्मपरत्वेऽखण्डार्थताहानिः ; काके काकवदित्यस्येवास्याप्यप्रामाण्यापत्तिः, थ्यात्वादिति; तत्राखण्डार्थवादे वक्ष्यामः । न च - न्यूनाप्यकुलि- रधिकमाच्छादयति; अविषयसंबन्धित्वात्, इयं हि विषयसंब- न्धिनी कथमधिकमाच्छाद येदिति वाच्यम् ; दत्तोत्तरत्वात् । तस्मादविद्या स्वरूपत आश्रयतो विषयतश्च सुनिरूपा ॥ इत्यद्वैतसिद्धावविद्याया विषयोपपत्तिः ॥ उपलक्षणस्य मि - 46 विषयः । उक्तदोषात् घटाद्यवच्छिन्नचिज्ज्ञानादपि तन्नाशापत्त्यादि- दोषात् । अद्वैतक्षतेः उक्ताज्ञाननाशिकाया उक्तभेदादिधियोऽ- प्रमात्ववारणायोक्तभेदादेः स्वाधिकत्वेन वाच्यतयाऽद्वैतहानेः । अन्यो- न्याश्रयात् भेदादिसिद्धौ तद्विषयकाज्ञानसिद्धिः, तत्सिद्धौ च तज्ज- न्यभेदादिसिद्धिरित्यभिमानः । वस्तुतो भेदादेरनादित्वेऽप्यविद्यानाशना- श्यत्वेनाविद्यकत्व संभवान्नान्योन्याश्रयः | अकाके काकशून्ये । वक्ष्याम इति । उपलक्ष्यस्य व्यक्तिमात्ररूपत्वे तज्ज्ञानस्य न सप्रकारकत्वम्, तथा शब्दाश्रयत्वाद्युपलक्ष्याकाशादेर्ज्ञान'स्थेत्यायुक्तमित्यपि बोध्यम् । इयं हि — इयं तु | दत्तोत्तरत्वादिति । अविद्याया अप्यात्मवद्विभु- त्वपक्षे न्यूनत्वमेव नास्ति, अविभुत्वपक्षेऽप्यनुभवबलादाच्छादकत्वम्, - 1 तात्त्विकस्यैव- रज्ञान-ग. -ग. 2