पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१००८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

40 सव्याख्यायामद्वैतसिद्धो [ प्रथमः निवृत्च्या सुखादौ प्रमाणवृत्त्यभावेऽपि स्फुरणमात्रेणाज्ञानादर्शने - नान्वयव्यतिरेकाभ्यां स्फुरणस्यैवाज्ञानादौ विरोधित्वमिति– निरस्तम्; परोक्षवृत्तेर्विषयपर्यन्तत्वाभावेन न विषयगताज्ञान- निवर्तकत्वम्, सुखादौ च ज्ञातैकसच्चादज्ञाननिवृत्तिं विनैवा- ज्ञानादर्शनम् । अतोऽन्वयव्यतिरेकयोरन्यथासिद्धया स्फुरणमात्रं नाज्ञानविरोधि । न चात्मनोऽज्ञानाश्रयविषयत्वे स्वसत्तायाम- प्रकाशविधुरत्वेन स्वप्रकाशत्वसाधनायोगः; परिपूर्णत्वादिनाs- प्रकाशविधुरत्वाभावेऽप्यध्यासाधिष्ठानत्वादिना प्रकाशमानतया - प्रकाशविधुरत्वसंभवात् । न च – वृत्तिचितोर्वैषम्योक्तिरयुक्ता, वृत्तिवत्साक्षिणोऽपि समानविषयतया अज्ञानविरोधित्वानुभवात्, अन्यथा साक्षिवेद्ये चैत्रेच्छासुखादौ मैत्रस्येव चैत्रस्याप्यज्ञानं स्यात्, नो चन्मैत्रस्याप्यज्ञानं न स्यादिति – वाच्यम् ; साक्षिणि यदज्ञानविरोधित्वमनुभूयते, तन्नाज्ञानविरोधित्व निबन्धनम् किंतु स्वविषय इच्छादौ यावत्सत्त्वं प्रकाशादज्ञानाप्रसक्तिनिव- न्धनम् । वृत्तेश्च स्वविषये प्रसक्ताज्ञाननिवृत्तिनिबन्धनमेवेत्युभ- योर्वैषम्योक्तिर्युक्तैव । अज्ञानाप्रसक्तेरेव चैत्रच्छादौ चैत्रस्य नाज्ञानव्यवहारः, मैत्रस्य तु प्रमात्रज्ञानादेव तद्व्यवहारः । अन्यथा चाक्षुषत्वादेरपि चिद्गतत्वापत्तेरिति ध्येयम् । परिपूर्ण- त्वादिनेति । शुद्धचिद्रूपणा वृतत्वस्वीकारेऽपि तद्रूपसंबन्धितया अज्ञाऽ- हमित्यादिव्यवहारात्तद्रूपव्यवहारे प्रमाणवृत्त्यनपेक्षत्वरूपं स्वप्रकाशत्वं प्रमा- णवृत्तिं विनाप्यनुभूयमानतद्रूपव्यवहारकत्वपर्यवसन्नेनोक्तहेतुना साध्यस इत्यपि बोध्यम् । उक्तं च पूर्व स्वव्यवहारे स्वातिरिक्तसंविद- न्तरानपेक्षत्वं स्वप्रकाशत्वमिति । वृत्तिचितोः प्रमाकेवलचितोः । वृत्तेः 1 निवर्तकत्व. 2 संबद्धताय - ग.