पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१००७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पीरच्छेदः] अज्ञानवादेऽज्ञानविषयनिरूपणम् तन्यं जानामीति व्यवहारविषयः । तथा च न जानामीत्यनेन वृत्तिचितोरुभयोरप्यज्ञानविरोधित्वं विषयीक्रियते । एवं च न चैतन्येऽज्ञानविरोधित्वम् ; नापि वृत्तौ ; वृत्त्युपारूढचित एवार्थ- प्रकाशकत्वेन तथात्वात् । ननु - वृत्तेरप्यर्थप्रकाशकत्वं विना जातिविशेषेणैवाज्ञानतत्कार्यनिवर्तकत्वे - इच्छादिनिवर्त्यद्वेषा - तन्नि- 39 दिवत्सत्यापच्या शुक्तथादिज्ञानवदर्थप्रकाशकत्वेन वर्तकत्वे वक्तव्ये चैतन्यस्यापि तत्सत्त्वेन तन्निवर्तकत्वावश्य- म्भावेन तन्निवृर्थ्यापातः ; नित्यातीन्द्रिये परोक्षवृत्तौ सत्या- मप्यज्ञानानिवृत्त्या सुखादावपरोक्षवृत्त्यभावेऽपि स्फुरणमात्रेणा- ज्ञानादर्शनेन चान्वयव्यतिरेकाभ्यां स्फुरणस्यैवाज्ञान विरोधित्वा- दिति – चेन; प्रमाणवृत्त्युपारूढप्रकाशत्वेन निवर्तकत्वं ब्रूमः, न तु जातिविशेषेण, प्रकाशत्वमात्रेण वा । अतो नेच्छादिनि- वर्त्यद्वेषादिवदेतन्निवर्त्यानां सच्चापत्तिः, न वा चैतन्यमात्रस्य निवर्तकत्वापत्तिः । अत एव - शाब्दादिवृत्तौ सत्यामप्यज्ञाना- - उभयोः मिळितयोः । अर्थप्रकाशकत्वेनेति । अर्थेऽस्ति भातीति व्यवहारप्रयोजकत्वेनेत्यर्थः । प्रमाणवृत्युपारूढप्रकाशकत्वेन | प्रमाण- वृत्त्यवच्छिन्नचित्त्वसमनियतप्रमात्वजात्या । अर्थप्रकाश के प्रमात्वव्यवहारेण वृत्त्यवच्छिन्नचित्येव तत्स्वीक्रियते, न तु केवलवृत्ताविति भावः । जातिविशेषेण चक्षुरादिजन्यतावच्छेदकीभूतेन वृत्तिमात्रनिष्ठचाक्षुष- त्वादिजातिविशेषेण । सत्वापत्तिरिति । प्रमात्वेन प्रमानिवर्त्यस्य सत्यत्वेनासम्प्रतिपत्ते रिति शेषः । वस्तुतो वृत्तेः प्रमात्वेन निवर्त- कत्वेऽपि न सत्त्वापत्तिः । न हि प्रमात्वेन प्रमानिवर्त्यस्य सत्त्वं क्वचिदृष्टम् । एवं चाज्ञानानुमाने वृत्तिरेव प्रमात्वेनाज्ञाननिवर्तिकेति यदुक्तम्, तदपि युक्तमेव ; तदभेदाच्चैतन्येऽपि प्रमात्वव्यवहरोपपत्तेः,