पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१००६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैत सिद्धौ [ प्रथमः धसंपादनद्वाराऽस्मिन्पक्षेऽप्यस्त्येव । न चाज्ञानस्य स्वविरोधिज्ञाना- भावव्यापकत्वेन मोक्षेऽप्यज्ञानापात इति -- वाच्यम्; मोक्षदशा- यामज्ञाननिवृत्तिश्रवणेन स्वविरोधिज्ञानप्रागभावमात्रव्यापक- । त्वात् । न च – कथं प्रमाणवृत्तिमात्रविरोधित्वेऽज्ञानस्य ज्ञान- मात्रविरोधित्वेनैव न जानामीत्याकारेण प्रत्यय इति – वाच्यम्; घटादिमात्रावरोधिनो घटाभावादेर्भावसामान्यविरोधित्वेना- 38 । भावत्वेन प्रतीतिवत् ज्ञानविशेषविरोधिनोऽप्यज्ञानस्य ज्ञानसामा- न्यविरोधित्वेन प्रतीतिसंभवात् । न ह्यभावपदादिनाभावप्रतीतौ घटाभावो न भासते । अथ सा विरोधिता तत्र विशेषमात्र पर्यव- सन्ना, समं प्रकृतेऽपि; अन्यत्राभिनिवेशात् । न च – 'न जानामी' ति ज्ञप्तिविरोधित्वस्यैवानुभवात्कथं वृत्तिविरोधित्वम् ? त्वन्मते चैतन्यस्यैव ज्ञप्तित्वात्, चैतन्याज्ञानयोरविरोधे ज्ञान- त्वाज्ञानत्वायोगादिति – वाच्यम्; मन्मते वृत्तिप्रतिबिम्बितचै- अज्ञानविरोधित्वपदेन | अस्त्येवेति । उपरागस्य स्वप्रागभावादिनिवर्त- कत्वमस्त्येवत्यर्थः । यत्तु निवृत्तिप्रयोजकत्वेत्यस्याज्ञाननिवृत्तिप्रयोजकत्वे- त्यर्थः, स चायुक्तः ; चैतन्यस्यैव तदौचित्यादिति, तच्छोभते; न हि वृत्तेश्चिदुपरागार्थत्वपक्षेऽप्यज्ञाननिवृत्तिप्रयोजकत्वम्, न वा चैत- न्यस्य' तदापत्तिः संभवति, वृत्त्यभावकाले तदापत्तेः । तद्विशेष- मात्रपर्यवसन्नेति । अभावपदस्य घटादिभावविशेषाधिकरणावृत्ति- त्वरूपेण लक्षणयेति शेषः । सममिति । अज्ञानपदस्य ज्ञाननाश्यत्व- रूपेण ज्ञानविशेषनाश्यपरत्वम् । न हि बलिबाणादौ हरिहरादिभक्तेऽप्य- सुरादिपदं सुरविशेषद्वेषिपरतया न प्रयुज्यत इति भावः । वृत्तिप्रति - बिम्बितेति । सुखादावपि स्वात्मकवृत्तिप्रतिबिम्बित चिदस्त्येवेति भावः | - 1 चैतन्यस्यैव-ग.