पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१००५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञानवादेऽज्ञानविषयनिरूपणम् - हन्तैवमभावस्वभावविरोधिप्रतियोगिज्ञाननिरपेक्षज्ञानविषयत्वम भाववलक्षण्यसाधकमज्ञाने उपपादितमायुष्मता । किंच यद्य- ज्ञानं स्वकाले विषयावच्छिन्नतया न भासयेत्, तदा तु ' त्वदु- कमर्थं न जानामी' ति विषयावच्छिन्नाज्ञानस्य वर्तमानार्थ- प्रत्ययो विरुध्येत । तस्माद्विषयाज्ञानसाधकत्वात्साक्षिरूपविषय- प्रकाशोऽपि नाज्ञानाविरोधी, किंतु प्रमाणवृत्तिः । एकविषयत्वेऽपि प्रमाणवृत्तितदतिरिक्तवृत्योरज्ञानविरोधित्वाविरोधित्वे घटविषय- कयोः सौरालोकज्ञानयोः सौरचाक्षुषप्रकाशयोर्वा तमोविरोधि त्वाविरोधित्ववदुपपद्येते । नच – वृत्तिश्चैतन्यस्य विषयोपरागा- थेति मतेऽस्या अज्ञाननिवर्तकत्वाभावादिदमयुक्तमिति वाच्यम्; अज्ञाननिवर्तकत्वेन निवृत्तिप्रयोजकत्वस्यैवोक्तत्वात् । तच्च संब- तर्हि क्लृप्तकारणबाघान्नो क्तप्रत्यक्षमभावविषयकम्, किंतु भावरूपाज्ञान. विषयकमित्येव कल्पनीयम् । न तु क्लृप्तकारणबाधे कार्यमित्यादि पूर्व- मुक्तम् ; तथा च स्वमतहानाय स्वयमेव यतते इत्याशयेनाह- हन्तेति । हर्षे हन्तशब्दः, वर्तमानार्थप्रत्ययः । स्थूलकालमादाय तदुपपादनं तु न युक्तम् ; न जानामीति लटा स्वप्रयोगाधिकरणस्वशक्यतत्तत्कालो- ल्लेखात्, अन्यथाऽज्ञाननाशकालेऽपि नष्टक्षणाव' च्छेदेनाज्ञानाधिकरण- स्थूलकालमादाय न जानामीति बुद्ध्यापत्तेः । इदमुपलक्षणम् – एताव- त्कालं नाज्ञासिषमिति धीः स्मृतिरनुमितिरर्थापत्तिर्वा । नाद्यः; विशेष- विषयकत्वेन पूर्वमननुभवात् । नेतरौ; विशेषज्ञानत्वस्य विशेषाज्ञान- नाशकत्वाव्याप्तत्वात् । विशेषप्रमात्वस्याज्ञानसिद्धः पूर्वमसिद्धत्वाद्विशेष- ज्ञानत्वादेर्हेतुत्वासंभवादित्याद्यपि बोध्यम् । प्रकाशोऽपीत्यपिना प्रमा- त्वेनागृह्यमाणवृत्तेः समुच्चयः । प्रमाणवृत्तिः प्रमात्वेन भासमानवृत्तिः । चाक्षुषप्रकाशयोः चक्षुःपरिणामतेजसोः । अज्ञाननिवर्तकत्वेन 1 वर्तमानविषयकप्रत्ययः-ग. 2 भाविक्षणाव-ग. - 37 -