परिच्छेदः] अज्ञानवादेऽज्ञानविषयनिरूपणम् 41 - - नच - तर्ह्यात्मन्यपि तत एव तदप्रसक्तिरिति वाच्यम् ; दत्तो- तरत्वात् । किंच साक्षिवेद्यत्वं तदप्रसक्तौ तन्त्रम्, आत्मा तु न तद्वेद्यः ; चिद्रूपत्वात्प्रकाश एवेति । न च – तर्हि सुतरामज्ञा नानुपपत्तिस्तेजसीव तमसः, अन्यथा घटादिरालोकमिवात्मापि स्वव्यवहारे ज्ञानान्तरमपेक्षतेति – वाच्यम् ; अज्ञानावृतत्वाद्धटव- दज्ञाननिवर्तकान्तरापेक्षा चेत्तहींष्ट। पत्तिः; वृत्तेरेवापेक्षणात्, प्रका शान्तरापेक्षायां जडत्वस्योपाधित्वात्, प्रकाशत्वेऽप्यज्ञानाविरो धित्वस्योपपादितत्वात् । अत एव सर्व वस्तु ज्ञाततयाज्ञाततया च साक्षिचैतन्यस्य विषयः, ज्ञानाज्ञानयोः स्वविषयावच्छिन्नयोरेव भानात् । एतेनान्धकारावृतवज्ज्ञानाभावावच्छेदकविषयवच्चाज्ञा- नावृतस्याप्यप्रकाशेन साक्षिवेद्यत्वायोग इति – निरस्तम् ; विष- यावच्छेदेनानुभवाविरोधात् । ननु वृत्तेरज्ञानविरोधित्वेऽप्यात्म- विषया वृत्तिरिदानीमध्यस्त्येवेति कथं तत्राज्ञानम् ; किंच त्वन्मते घटाद्यपरोक्षवृत्तेरपि घटाद्यवच्छिन्नचिद्विषयत्वेन सुतरां चित्य- ज्ञानासंभवः, न च – विशिष्टचैतन्यरूपजीवविषया वा घटाव- प्रमायाः । अज्ञाननिवर्तकान्तरापेक्षेति । अज्ञाननिवर्तकप्रमायां घटकान्तरापेक्षेत्यर्थः । जडत्वस्येति । 'यद्यदज्ञातं तत्स्वव्यवहारे स्वान्यप्रकाशापेक्ष 'मिति ' व्याप्तौ जडत्वमुपाधिः, तच्च न चिदन्यत्वम् ; येन पक्षेतरत्वरूपता स्यात्, किंतु मिथ्यात्वादिरूपम् | वस्तुतोऽज्ञातत्वं यद्यज्ञानविषयत्वं तदा घटादौ साधनवकल्यम्, यदि तदवच्छेदकत्वं तदा स्वरूपासिद्धिरपि, एतेयोरन्यतरत्वं तत्तथाप्रयोजकत्वम् 3, अज्ञान- विषयतावच्छेदकत्वादेरुपाधित्वं चेति ध्येयम् । अनुभवविरोधात् -- अज्ञानानुभवाविरोधात् । आत्मविषया वृत्तिरिति । अहमित्याकारति 2 तरवत्वं क. ग. 3 तथाप्य प्रयोजकत्धं - क. ग. 2 - 1 पेक्ष्य - क. ग. - ,
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१००९
दिखावट