उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥३६॥
मातृपितृकृताभ्यासो गुणितामेति बालकः ।
न गर्भाच्युतमात्रेण पुत्रो भवति पण्डितः ॥ ३७॥
तथा च--
माता शत्रुः पिता वैरी येन बालो न पाठितः ।
न शोभते सभामध्ये हंसमध्ये बको यथा ॥ ३८ ॥
रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ ३९॥
मूखऽपि शोभते तावत्सभायां वस्त्रवेष्टितः ।।
तावञ्च शोभते सूखें यावत्कचिन्न भाषते ॥ ४० ॥
एतचिन्तयित्वा स राजा पण्डितसभा कारितवान् । राजोवाच--- भो भोः पण्डिताः । श्रूयन्ताम् । अस्ति कश्चिदेवभूतो विद्वान् यो मम पुत्राणा नित्यमु- न्मार्गगामिनामनविगतशास्त्राणामिदानीं नीतिशास्त्रोपदेशेन पुनर्जन्म कारयितु समर्थ. १ यत -
काचः काञ्चनसंसर्गाद्धत्ते मारकतीं शुतिम् ।
तथा सत्संनिधानेन मूख यात प्रवीणताम् ॥ ४१ ॥
उक्त च-
हीयते हि मतिस्तात हीनैः सह समागमात् ।।
समैश्च समतामेति विशटैश्च विशिष्टताम् ॥ ४२ ॥
अत्रान्तरे विष्णुशर्मनामा महापण्डित सकलनीतिशास्त्रतत्त्वज्ञो बृहस्पतिरिवा- ब्रवीत् “ देव महाकुलसभूता एते राजपुत्रा मया नीति ग्राहयितुं शक्यन्ते । यत ----
नाद्रव्ये निहिता काचित्क्रिया फलवती भवेत् ।
न व्यापारशतेनापि शुकवर पाठ्यते वकः ॥ ४३ ॥
अन्यच्च----