पृष्ठम्:हितोपदेशः.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०) [ हितोपदेशे- अस्मिस्तु निर्गुणं गोत्रे नापत्यमुपजायते । आकरे पद्मरागाणां जन्म काचमणेः कुतः ॥ ४४ ॥ अतोऽहं षण्मासाभ्यन्तरे तव पुत्रानीतिशास्त्राभिज्ञान्करिष्यामि । ' राजा सविनय पुनरुवाच- | * कीटोऽपि सुमनःसङ्गादारोहति सतां शिरः। अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ ४५ ॥ अन्यच्च--- यथोदयगिरेव्यं सन्निकर्षण दीप्यते । तथा सत्संनिधानेन हीनवर्णोऽपि दीप्यते ॥ ४६॥ गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । आस्वाद्य तोयाः प्रभवन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः ॥ १७ ॥ तदेतेषामस्मरपुत्राणा नीतिशास्त्रोपदेशाय भवन्त' प्रमाणम् । इत्युक्त्वा तस्य विष्णुशर्मणो बहुमानपुर सर पुत्रान्समर्पितवान् । अथ प्रासादपृष्ठे सुखोपविष्टाना राजपुत्राणा पुरस्तात् प्रस्तावक्रमेण स पण्डितो- ऽब्रवीत् * भो राजपुत्रा ! शृणुत- काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन च मूर्खाणां निद्रया कलहेन वा ॥ ४८ ॥ । तद्भवता विनोदाय काककूमदीना विचित्रा कथा कथयामि' । राजपुत्रै- रुक्तम्- आर्य । कथ्यताम् ।। इति कथारम्भ समाप्त ।