सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुद्धेदः.] (८१) बन्धुः को नाम दुष्टानां कुप्यते को न याचितः। को न दृष्यति वित्तेन कुकृत्ये को न पाण्डितः ॥१७॥ अन्यच्च- दुर्वृत्तः क्रियते धूतैः श्रीमानात्मविवृद्धये ।। किं नाम खलसंसर्गः कुरुते नाश्रयाशवत् ॥ १७३ ॥' ततो दमनक पिङ्गलकसमीप गत्वा · देव । समागतोऽसौ पापाशय । ततः सज्जीभूय स्थीयताम्' इत्युक्त्वा पूर्वोक्ताकार कारयामास । सञ्जीवकोऽप्या- गत्य तथाविध विकृताकार सिह दृष्ट्वा स्वानुरूप विक्रम चकार । ततस्तयोयुद्धे सञ्जीवक. सिहेन व्यापादित । अथ सञ्जीवक सेवक पिङ्गलको व्यापाद्य विश्रान्तः सशोक इव तिष्ठति । ब्रते च-* कि मया दारुण कर्म कृतम् १ यत'-- परैः संभुज्यते राज्यं स्वयं पापस्य भाजनम् । धर्मातिक्रमतो राजा सिंहो हस्तिवधादिव ॥ १७४ ।। अपर च- भूम्येकदेशस्य गुणान्वितस्य भृत्यस्य वा बुद्धिमतः प्रणाशः। भृत्यप्रणाशी मरणं नृपाणां नष्टापि भूमिः सुलभा न भृत्याः ॥ १७५ ॥ दमनको ब्रूते--- स्वामिन् । कोऽय नूतनो न्याय १ यदराति हत्वा सन्तापः क्रियते । तथा चोक्तम्- पिता वा यदि वा भ्राता पुत्रो वा यदि वा सुहृत् । प्राणच्छेदकरा राज्ञा हन्तव्या भूतिमिच्छता ॥ १७६ ॥ अपि च- धर्मार्थकामतत्त्वज्ञो नैकान्तकरुणो भवेत् । न हि हस्तस्थमप्यन्नं क्षमावान्भक्षितुं क्षमः ॥ १७७ ॥ किञ्च- क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम् । अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम् ॥ १७८॥