पृष्ठम्:हितोपदेशः.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८०) [ हितोपदेशे- ययोरेव समै वित्तं ययोरेव समं बलम् । तयोर्विवादो मन्तव्यो नोत्तमाधमयोः क्वचित् ॥१६४ ।। ( पुनर्विचिन्त्य } केनाय राजा ममोपारि विकारितः, न जाने, भेदमुपग- ताद्राज्ञ सदा भेतव्यम् । यत - मन्त्रिणा पृथिवीपालचित्तं विघटितं क्वचित् ।। वलयं स्फटिकस्येव को हि सन्धातुमीश्वरः ॥ १६५ ।। अन्यच्च- वज्त्रं च राजतेजश्च द्वयमेवातिभीषणम् । एकमेकत्र पतितं पतत्यन्यत्समन्ततः । १६६ ॥ ततः संग्रामे मृत्युरेव वरम् । इदानीं तदाज्ञानुवर्तनमयुक्तम् । यत - मृतः प्राप्नोति वा स्वर्गे शत्रु हत्वा सुखानि वा । उभावपि हि शूराणां गुणावेतौ सुदुर्लभौ ॥ १६७ ३६ युद्धकालश्चायम्- यत्र युद्धे ध्रुवं मृत्युर्युद्धे जीवितसंशयः । तमेव कालं युद्धस्य प्रवदन्ति मनीषिणः ॥ १६८ ॥ अयुद्धे हि यदा पश्येन्न किञ्चिद्धतमात्मनः ।। युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ १६९ ॥ जये च लभते लक्ष्म मृतेनापि सुराङ्गनाम् । क्षणविध्वंसिनः कायाः का चिन्ता मरणे रणे ॥१७०i एतचिन्तयित्वा सञ्जीवक आह-* भो मित्र ! कथमसौ मा जिघासुर्ज्ञातव्य है ? दमनको ब्रूते- यदासौ पिङ्गलक समुन्नतलागूल उन्नतचरणो विवृतास्यस्त्वा पश्यति तदा त्वमेव स्वविक्रम दर्शयिष्यमि । यत -- बलवानपि निस्तेजाः कस्य नाभिभवास्पदम् । निःशङ्क दीयते लोकैः पश्य भस्मधये पदम् ॥१७१ ॥ किन्तु सर्वमेतत्सुगुप्तमनुष्ठातव्यम्, नो चेन त्वं नाहम् ' इत्युक्त्वा दमकः करटकसमीप गत १ करटकेनोक्तम्- कि निष्पन्नम् ' दमनकेनोक्तम्-5 निष्प- नोऽसावन्योन्यभेद ।' करटको ब्रूते-- कोत्र सन्देहः १ । यतः-