पृष्ठम्:हितोपदेशः.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुबृद्भेदः.] (७१ )


सह तथैव क्रीडति । अनन्तर तस्या भर्ता गोपो गोष्ठात्समागतः । तमालोक्य गोप्योक्तम्-* दण्डनायक । त्व लगुड गृहीत्वा कोप दर्शयन्सत्वरं गच्छ ।' तथा तेनानुष्ठिते गोपेन गृहमागत्य भार्या पृष्टा ‘केन कार्येण दण्डनायकः समागत्यात्र स्थित १' सा ब्रूते- अय केनापि कार्येण पुत्रस्योपरि क्रुद्ध., स च पलायमा- नोऽग्यत्रागत्य प्रविष्टो मया कुसूले नि क्षिप्य रक्षित , तत्पित्रा चान्विष्यात्र न दृष्ट अत एवाय दण्डनायकः क्रुद्ध एवं गच्छति । तत सा तत्पुत्र कुमूलाद्वहि- ष्कृत्य दर्शितवती । तथा चोक्तम्-

आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा। षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥ ११६॥

अतोऽह ब्रवीमि-“उत्पन्नेष्वपि कार्येषु ?? इत्यादि ।।

करटको ब्रूते-‘अस्त्वेवम्, कि त्वनयोर्महानन्योन्यनिसर्गोपजातस्नेहः कथं भेदयितुं शक्यः १' दमनको ब्रूते-* उपाय क्रियताम् ।' तथा चोक्तम्-

उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।। काक्या कनकसूत्रेण कृष्णसर्पो निपातितः ॥ ११७ ।।

करटक पृच्छति' कथमेतत् १ दमनक. कथयति-

कथा ७.

कस्मिश्चित्तरौ वायसदंपती निवसतः । तयोश्चापत्यानि तत्कोटरावस्थि- तेन कृष्णसर्पेण खादितानि । तत पुनर्गर्भवती वायसी वायसमाह ‘नाथ त्यज्यतामय तरु । अत्रावस्थितकृष्णसणावयोः सततिः कदाचिदपि न भवि- ध्यति । यत'-

दुष्टा भार्या शठं मित्रं भृत्याश्चोत्तरदायकाः । ससपे च गृहे वासो मृत्युरेव न संशयः ॥ ११८ ॥

वायसो ब्रूते-‘प्रिये न भेतव्यम् । वारवार मयैतस्य महापराधः सोढः । इदानीं पुनर्न क्षन्तव्य । वायस्याह-* कथमेतेन बलवता साधं भवान्विग्रहीतुं समर्थः १ वायसो ब्रूते-‘अलमनया शङ्कया । यत -