'६ ६२ ) [ हितोपदेशे- ततस्तौ दमनककरटको राज्ञा महाप्रसादेन पूजितौ भयप्रतीकार प्रतिज्ञाय चलितौ । करटको गन्छन् दमनकमाह--‘सखे 'कि शक्यप्रतीकारो भयहेतुरशक्य- प्रतीकारी वेति न ज्ञात्वा भयोपशम प्रतिज्ञाय कथमय महाप्रसादो गृहीतः । यतोऽनुपकुर्वाणो न कस्याप्युपायन गृह्णीयाद्विशेषतो राज्ञ । पश्य- यस्य प्रसादे पद्माऽस्ते विजयश्च पराक्रमे ।। मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ ७९ ॥ तथा हि- बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति ॥८० ॥ दमनको विहस्याह-‘मित्र तूष्णीमास्यताम्,ज्ञात मया भयकारणम् । बलीवर्द- नर्दित तत् । वृषभाश्चास्माकमपि भक्ष्या , कि पुन सिहस्य ।' करटको ब्रूते-
- यद्येव तदा कि पुन स्वामित्रासस्तत्रैव किमिति नापनीत ' दमनको ब्रूते-
- यदि स्वामित्रासस्तत्रैव मुच्यते तदा कथमय महाप्रसादलाभः स्यात् । अपर च-
निरपेक्षो न कर्तव्यो भूत्यैः स्वामी कदाचन । निरपेक्षं प्रभुं कृत्वा भृत्यः स्यादधिकर्णवत् ॥ ८१ ॥ करटकः पृच्छति ‘ कथमेतत् १' दमनक. कथयति- | कथा ३, अस्युत्तरापथेऽर्बुदशिखरनाम्नि पर्वते दुर्दान्तो नाम महाविक्रम सिंहः। तस्य पर्वतकन्दरमविशयानस्य केशराग्र कश्चिन्मूषकः प्रत्यहं छिनत्ति । तत. स केसराग्र लूत दृष्ट्वा कुपितो विवरान्तर्गत मूषकमलभमानोऽचिन्तयत्-कि विधेयमत्र भवति । एव श्रूयते---- क्षुद्रशत्रुर्भवेद्यस्तु विक्रमान्नैव लभ्यते।। तमाहन्तुं पुरस्कार्यः सदृशस्तस्य सैनिकः ॥ ८२ ॥ इत्यालोच्य तेन ग्राम गत्वा विश्वास कृत्वा दाधकर्मनामा बिडालो यत्नेना- नीय मासाहार दत्त्वा स्वकन्दरे स्थापितः । अनन्तर तद्भयान्मूषकोऽपि बिलान