निसरति । तेनासौ सिहोऽक्षतकेसर सुख स्वपिति । मूषकशब्दं यदा यदा
शृणोति तदा तदा मासाहारदानेन त बिडाल सविशेष सवधयति । अथैकदा स
मूषक. क्षुधापीडितो बहि. सचरन् बिडालेन प्राप्तो व्यापादित. खादितश्च ।
अनन्तर स सिहोऽनेककाल यावन्मूषकशब्दं न शुश्राव, तदोपयोगाभावात्तस्य
बिडालस्याहारदाने मन्दादरो बभूव । ततोऽसावाहारविरहाद् दुर्बलो दधिकर्णोऽ-
वसनो बभूव । अतोऽह ब्रवीमि निरपेक्षो न कर्तव्यः' इत्यादि ।
ततो दमनककरटकौ सञ्जीवकसमीप गतौ । तत्र करटकस्तरुतले साटो- पमुपविष्ट । दमनक सञ्जीवकससीप गत्वाब्रवीत्- अरे वृषभ । एषोऽह राज्ञा पिङ्गलकेनारण्यरक्षार्थ नियुक्त सेनापतिः करटक समाज्ञापयति-सत्वरमागच्छ, न चेदस्मदरण्याहूरमपसर । अन्यथा ते विरुद्धं फल भविष्यति । न जाने क्रुद्व स्वामी कि विधास्यति ।' तच्छत्वा सञ्जीवकश्चयात् । यतः-
आज्ञाभङ्गो नरेन्द्राणां ब्राह्मणानामनादरः ।
पृथक्शय्या च नारीणामशस्त्रविहितो वधः॥८३॥
ततो देशव्यवहारानभिज्ञ सञ्जीवक सभयमुपसृत्य साष्टाङ्गपातं करटक प्रणत- वान् । तथा चोक्तम्-
मतिरेव बलाद्रीयसी
यदभावात्करिणामियं दशा ।।
इति घोषयतीव डिण्डिमः
करिणो हस्तिपकाहतः क्वणन् ॥ ८४ ॥
अथ सञ्जीवक साशङ्कमाह- सेनापते । कि मया कतर्व्यम् १ तदभिधीय- ताम् ।' करटको ब्रूते- वृषभ ! अत्र कानने तिष्ठसि । अस्मदेवपादारविन्द प्रणम ।' सञ्जीवको ब्रूते- तदभयवाच मे यन्छ, गच्छामि ।' करटको ब्रूते-
- शृणु रे बलीवर्द ! अलमनया शङ्कया । यत -
प्रतिवाचमदत्त कशवः
शपमानाय न चेदिभूभुजे ।
अनु हुंकुरुते घनध्वनि
न हि गोमायुरुतानि केसरी ॥ ८५ ॥