सुहृद्भेदः. ] (६१) यतः-- अवज्ञानाद्राज्ञो भवति मतिहीनः परिजनः ततस्तत्प्रामाण्याद्भवते न समीपे बुधजनः । बुधैस्त्यक्ते राज्ये न हि भवति नीतिर्गुणवती विपन्नाया नीत सकलमवशं सीदति जगत् ॥ ७५ ॥ अपरच–देव । । जनं जनपदा नित्यमर्चयान्ति नृपार्चितम् । नृपेणावमतो यस्तु स सर्वैरवमन्यते ॥ ७६ ॥ किं च- बालादपि गृहीतव्यं युक्तमुक्तं मनीषिभिः । रवेरविषये कि नु प्रदीपस्य प्रकाशनम् ॥ ७७ ॥ पिङ्गलकोऽवदत्-‘भद्र दमनक! किमेतत् १ त्वमस्मदीयप्रवानामात्यपुत्र सुधी- रियन्तं काल यावत्कुतोऽपि खलवाक्यानागतोऽसि । इदानीं यथाभिमत ब्रूहि ।' दमनको ब्रूते-‘देवपृच्छामि किचित् उच्यताम् । उदकार्थी स्वामी पानीयमपीत्वा किमिति विस्मित इव तिष्ठति ।' पिङ्गलकोऽवदत्‘भद्रमुक्त त्वयाकिं वेतद्रहस्य वक्तुं काचिद्विश्वासभूमिर्नास्ति । त्व तु तथाविध , ततः शृणु । सप्रति वनमिदमपूवस- वाधिष्ठितमतोऽस्माक त्याज्यम् । अनेन हेतुना विस्मतोऽस्मि । तथा च श्रुत- स्त्वयापि महानपूर्व शब्दः । शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम् । दमनको ब्रूते--‘देव ! अस्ति तावदय महान्भयहेतु , स शब्दोऽस्माभिरप्याकर्णित । किं तु स किम्मन्त्री य. प्रथम मन्त्राभावेन भूपति भूमित्याग युद्ध चोपदिशति । देव । आस्मन्कार्यसदेहे भृत्यानामुपयोग एव ज्ञातव्यः । यत'- बन्धुखीभृत्यवर्गस्य बुद्धेः सत्त्वस्य चात्मनः । आपत्निकषपाषाणे नरो जानाति सारताम् ॥ ७८ ॥ सिहो ब्रूते-* भद्र | महती शङ्का मा बाबते ।' दमनक पुनराह (स्वगतम्)
- अन्यथा राज्यसुखं परित्यज्य स्थानान्तरं गन्तुं कथ मा सभाषसे (प्रकाश ब्रूते)
- देव ! यावदह जीवामि तावद्भयं न कर्तव्यम् । कि तु करटकादयोऽप्याश्वा-
स्यन्ताम्, यस्मादापत्प्रतीकारकाले दुर्लभः पुरुषसमवायः ।