सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६० ) [ हितोपदेशे- निर्विशेषो यदा राजा समं सर्वेषु वर्तते । तदोद्यमसमर्थानामुत्साहः परिहीयते ॥ ६७ ॥ किच- विविधाः पुरुषा राजनुत्तमाधममध्यमाः । नियोजयेत्तथैवैतांत्रिविधेष्वेव कर्मसु ॥ ६८ ॥ यत'- स्थान एव हि योज्यन्ते भृत्याश्चाभरणानि च । न हि चूडामणिः पादे नूपुरं शिरसा तथा ॥ ६९ ॥ अपि च-- कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रणिधीयते। न स विरौति न चापि स शोभते भवति योजयितुर्वचनीयता ॥ ७० ॥ अन्यच्च- मुकुटे रोपितः काचश्चरणाभरणे मणिः । न हि दोषो मणेरस्ति किं तु साधोरविज्ञता ॥७१ ॥ पश्य-- बुद्धिमाननुरक्तोऽयमिहोभयगुणो जनः । इति भृत्यविचारज्ञो भृत्यैरापूर्यते नृपः ॥ ७२ ॥ तथा हि- अश्वः शस्त्र शास्त्र वीणा वाणी नरश्च नारी च । पुरुषविशेष प्राप्ता भवन्ति योग्या अयोग्याश्च ॥ ७३ ॥ अन्यच्च- किं भक्तेनासमर्थेन किं शक्तेनापकारिणा । भक्तं शक्तं च मी राजन्नावज्ञातुं त्वमर्हसि ॥ ७४ ॥