यदि च प्राप्तावसरेणापि मया मन्त्रो न वक्तव्यस्तदा मन्त्रित्वमेव ममा-
नुपपन्नम् । यत -
कल्पयाति येन वृत्तिं येन लोके प्रशस्यते सद्भिः।
स गुणस्तेन च गुणिना रक्ष्यः संवर्धनीयश्च ॥ ६२ ॥
तद्भद्र । अनुजानीहि माम् । पिङ्गलकसमीप गच्छामि ।' करटको ब्रूते- ‘शुभमस्तु । यथाभिलषितमनुष्ठीयताम्-
गम्यतामर्थलाभाय क्षेमाय विजयाय च ।
शत्रुपक्षविनाशाय पुनरागमनाय च ।। ६३ ॥'
ततो दमनको विस्मित इव पिङ्गलकसमीप गतः ॥
अथ दूरादेव सादर राज्ञा प्रवेशित साष्टाङ्ग प्रणिपत्योपविष्ट: । राजाह- ‘चिरादृष्टोऽसि ।' दमनको ब्रूते-* यद्यपि मया सेवन श्रीमदेवपादाना न किचित्प्रयोजनमस्ति, तथापि प्राप्तकालमनुजीविना सान्निध्यमवश्य कर्तव्यमि- त्यागतोऽस्मि । किञ्च-
दन्तस्य निर्घर्षणकेन राजन्
कर्णस्य कण्डूयनकेन वापि ।
तृणेन कार्यं भवतीश्वराणां
किमङ्गवाक्पाणिमता नरेण ॥ ६४ ॥
यद्यपि चिरेणावधीरितस्य देवपादैमें बुद्धिनाशः शङ्कयते, तदपि न शङ्कनी- यम् । यत'-
मणिकुंठात पादेषु काचः शिरसि धार्यते ।
क्रयविक्रयवेलाया काचः काचो मणिर्मणिः ॥ ६५ ॥
कदर्थितस्यापि च धैर्यवृत्ते-
बुद्धर्विनाशो नहि शङ्कनीयः ।
अधःकृतस्यापि तनूनपातो
नाधः शिखा याति कदाचिदेव ॥ ६६ ॥
देव ! तत्सर्वथा विशेषज्ञेन स्वामिना भवितव्यम् । यतः-