पृष्ठम्:हितोपदेशः.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५८) [ हितोपदेशे- प्रायेण भूमिपतयः प्रमदा लताश्च । यः पार्श्वतो वसति तं परिवेष्टयन्ति ॥ ५४ ॥ करटको ब्रूते- अथ तत्र गत्वा कि वक्ष्यति भवान् । ' स आह-शृणु । किमनुरक्तो विरक्तो वा मथि स्वामीति ज्ञास्यामि ।' करटको ब्रूते-६ कि तज्ज्ञानलक्षणम् १ ' दमनको ब्रूते-‘शृणु- दूरादेवेक्षण हासः संप्रश्लेष्वादरो भृशम् । परोक्षेऽपि गुणश्लाघा स्मरणं प्रियवस्तुषु ॥ ५५ ॥ असेवके चातुरक्तिर्दानं सुप्रियभाषणम् । अनुरक्तस्य चिह्नानि दोषेऽपि गुणसंग्रहः ॥५६॥ अन्य च्च---- कालयापनमाशानां वर्धनं फलखण्डनम् । विरक्तेश्वरचिह्नाने जानीयान्मतिमान्नरः ॥ ५७ ।। एतज्ज्ञात्वा यथा चाय ममायत्तो भविष्यति तथा करिष्यामि । यत’-- अपायसन्दर्शनज विपत्ति- मुपायसन्दर्शनजां च सिद्धम् ।। मेधाविनो नीतिविधिप्रयुक्त पुरः स्फुरन्तीमिव दर्शयन्ति ॥ ५८ ॥ अपर च-- दोषा गुणा गुणा दोषा दोषा दोषा गुणा गुणाः । रक्ते विरक्ते मध्यस्थे स्वामिनि त्रिविधा गुणाः ॥ ५९॥ करटको ब्रूते-* तथान्यप्राप्ते प्रस्तावे न वक्तुमर्हसि । यत - अप्राप्तकालवचनं बृहस्पातरापि ब्रुवन् । प्राप्नुयायवज्ञानमपमानं च शाश्वतम् ॥ ६० ॥ दमनको ब्रूते-मित्र ! मा भैषी । नाहमप्राप्तावसर वचन वदिष्यामि । यतः- आपशुन्मार्गगमने कार्यकालात्ययेषु च । अपृष्ठेनापि वक्तव्यं भृत्येन हितमिच्छता ॥६१ ॥