सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(४४)
[ हितोपदेशे-
 


अन्यच्च-

न सा भार्येति वक्तव्या यस्या भर्ता न तुष्यात ।।
तुष्टे भर्तरि नारीणां सन्तुष्टाः सर्वदेवताः ॥२११॥

 ततो यद्यदादिशति में प्राणेश्वरस्तदेवाहमविचारितं करोमि । हूत्योक्तम्- सत्यमेतत् ।' लावण्यवत्युवाच-* ध्रुव सत्यमेतत् ।' ततो दूतिकया गत्वा तत्त- त्सर्व तुङ्गबलस्याग्रे निवेदितम् । तच्छुत्वा तुङ्गबलोऽवदत् । विषमेषुणा व्रणित- हृदयस्ता विना कथमह जीविष्यामि १ कुट्टिन्याह-स्वामिनानीय समर्पयितव्येति । स प्राह ‘कथमेतच्छक्यम् १ ' कुट्टिन्याह-उपाय क्रियताम् । तथा चोक्तम्-

उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।।
शृगालेन हतो हस्ती गच्छता पडूवर्मना ॥ २१२ ॥

राजपुत्रः पृच्छति-- कथमेतत् १' सा कथयति--

कथा ८.

 अस्ति ब्रह्मारण्ये कर्परतिलको नाम हस्ती। तमवलोक्य सर्वे शृगा- लाश्चिन्तयन्ति स्म - यद्यय केनायुपायेन म्रियते तदास्माकमेतद्देहेन मासचतुष्ट- यस्य स्वेच्छाभोजन भवेत् । ततः तत्रैकेन वृद्धशृगालेन प्रतिज्ञा कृता--‘मया बुद्धिप्रभावादस्य मरण साधयितव्यम् ।' अनन्तर स वञ्चक. करतिलकसमीप गत्वा साष्टाङ्गपात प्रणम्योवाच- ‘देव ! दृष्टिप्रसाद कुरु ।' हस्ती ब्रूते--‘कस्त्वम् । कुत' समायात, १ ' सोऽवदत्-‘जम्बुकोऽहम् । सर्वैर्वनवासिाभ.पशुभिर्मिलित्वा भवत्सकाश प्रस्थापित । यद्विना राज्ञाऽवस्थातु न युक्त तत्राटवीराज्ये अभिषेक्तु भवान् सर्वस्वामिगुणोपेतो निरूपित । यतः--

| यः कुलाभिजनाचारैरतिशुद्धः प्रतापवान् ।
धार्मिको नीतिकुशलः स स्वामी युज्यते भुवि॥२१३॥

अपर च पश्य-

राजानं प्रथमं विन्देत्ततो भार्या ततो धनम् ।
राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम् ॥ २१४॥