पृष्ठम्:हितोपदेशः.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४३) मित्रलाभः.] अम्भासि जलजन्तूनां दुर्ग दुर्गनिवासिनाम् । स्वभूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥ २०५॥ सखे लघुपतनक । अनेनोपदेशेन तथा भवितव्यम्- स्वयं वीक्ष्य यथा वध्वाः पीडितं कुचकुड्मलम् । वणिक्पुत्रोऽभवदुःखी त्वं तथैव भविष्यसि ॥ २०६ ॥ त ऊचुः-* कथमेतत् १' हिरण्यकः कथयति- कथा ७, अस्ति कान्यकुञ्जविषये वीरसेनो नाम राजा । तेन वीरपुरनाम्नि नगरे तुङ्गबलो नाम राजपुत्रो भोगपति कृत । स च महाधनस्तरुण एकदा स्वनगरे भ्राम्यन्नतिप्रौढयौवना लावण्यवतीं नाम वणिक्पुत्रवधूमालोकयामास । तत स्वहर्त्य गत्वा स्मराकुलितमतिस्तस्या कृते दूतीं प्रेषितवान् । यत.- सन्मार्गे तावदास्ते प्रभवात पुरुषस्तावदेवेन्द्रियाणां लज्जा तावाद्वधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति॥२० सापि लावण्यवती तदवलोकनक्षणात्प्रभृति स्मरशरप्रहारजर्जरितहृदया तदे- कचित्ताऽभवत् । तथा ह्युक्तम्- असत्यं साहसं माया मात्सर्यं चातिलुब्धता । निर्गुणत्वमशौचत्वं स्त्रीणां दोषाः स्वभावजाः ॥ २०८॥ अथ दूतीवचनं श्रुत्वा लावण्यवत्युवाच-'अह पतिव्रता परपुरुषस्पर्शमात्रमपि न करोमि । यतः-- सा भार्या या गृहे दक्षा सा भार्या या प्रजावती । सा भार्या या पतिप्राणा सा भार्या या पतिव्रता॥२०९ कोकिलानां स्वरो रूपं नारीरूपं पतिव्रतम् । विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥२१०॥