सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
मित्रलाभः. ]
४५
 


अन्यच्च-

पर्जन्य इव भूतानामाधारः पृथिवीपतिः ।
विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपत ॥ २१५ ॥
नियतविषयवर्ती प्रायशो दण्डयोगा-
जगति परवशेऽस्मिन्दुर्लभः साधुवृत्तः ।
कृशमपि विकलं वा व्याधितं वाऽधनं वा
पतिमपि कुलनारी दण्डभीत्याभ्युपैति ॥ २१६॥

 तद्यथा लग्नवेला न विचलति तथा कृत्वा सत्वरमागम्यता देवेन । इत्युक्त्वो- त्थाय चलितः । ततोऽसौ राज्यलोभाकृष्ट कर्परतिलक' शृगालदर्शितवर्मना धावन्महापङ्के निमग्नः । हस्तिनोक्तम्-' सखे शृगाल ! किमधुना विधेयम् १ महा- पङ्के निपतितोऽह म्रिये, परावृत्य पश्य ।' शृगालेन विहस्योक्तम् “ देव ! मम पुच्छकाग्रावलम्बन कृत्वोत्तिष्ठ । यन्मद्विधस्य वचसि त्वया प्रत्ययः कृतस्तदनु- भूयतामशरणं दु खम् । तथा चोक्तम्-

यदासत्सङ्गरहितो भविष्यसि भविष्यसि ।
तदासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥ २१७॥

 ततो महापङ्के निमग्नो हस्ती शृगालैर्भक्षित । अतोऽह ब्रवीमि- उपा- येन हि यच्छक्यम्' इत्यादि ।।

 तत कुट्टिन्युपदेशेन त चारुदत्तनामानं वणिक्पुत्रं स राजपुत्र सेवक चकार । ततोऽसौ तन सर्वविश्वासकार्येषु नियोजितः ।

 एकदा कुट्टिन्युपदेशेन तेन राजपुत्रेण स्नातानुलिप्तेन कनकरत्नालङ्कारवा- रिणा प्रोक्तम् । चारुदत्त ! मया मासमेक गौरीव्रतं कर्तव्यम् । तदद्यारभ्य प्रतिरात्रमेका कुलीना युवतीमानीय समर्पय । सा मया यथोचिंतन विधिना पूजयितव्या । तत स चारुदत्तस्तथाविधा नवयुवतीमानीय समर्प- यति । पश्चात्प्रच्छन्नः सन् किमयं करोतीति निरूपयति । स च तुङ्गबलस्ता युव- तीमस्पृशन्नेव दूराद्वस्त्रालंकारगन्धचन्दनै. सम्पूज्य रक्षकं दत्वा तत्क्षणमेव प्रस्था- पयति । अथ तेन वणिक्पुत्रेण तद्दष्ट्ोपजातविश्वासैन लोभाकृष्टमनसा स्ववधू