पृष्ठम्:हितोपदेशः.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मित्रलाभः. ] अपर च- यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । | यस्यार्थाः स पुमाँल्लोके यस्याथः स हि पण्डितः॥१३३॥ अन्यच्च- अपुत्रस्य गृहं शून्य सन्मित्ररहितस्य च । मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥१३४॥ अपर च- दारिद्यान्मरणाद्वापि दारिद्यमवरं स्मृतम् । अल्पक्लेशेन मरणं दारिद्यमातिदुस्सहम् ॥ १३५ ॥ तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वद ( च )नं तदेव । अर्थोष्मणा विराहतः पुरुषः स एव ह्यन्यः क्षणेन भवतीति विचित्रमेतत् ॥ १३६ ॥ एतत्सर्वमाकर्ण्य मयालोचितम्-- ममात्रावस्थानमयुक्तमिदानीम्, यच्चान्यस्मा- एतद्वृत्तान्तकथनम्, तदप्यनुचितम्- अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ १३७॥ अपि च- आयुर्वित्तं गृहाच्छद्रं मन्त्रमैथुनभेषजम् । तपोदानापमानं च नव गोप्यानि यत्नतः ॥ १३८॥ तथा चोक्तम्- अत्यन्तवमुखे दैवे व्यर्थे यत्ने च पौरुषे ।। मनस्विनो दरिद्रस्य वनादन्यत्कुतः सुखम् ॥ १३९ ॥ अन्यच्च- मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । आप निर्वाणमाथाात नानलो याति शीतताम् ॥१४०॥