पृष्ठम्:हितोपदेशः.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मित्रलाभः.] ( १७) अनागतभयं दृष्ट्वा नीतिशास्त्रविशारदः । अवसन्मूषिकस्तत्र वृद्धः शतमुखे बिले ॥ ३९ ॥ ततो हिरण्यक कपोतावपातभयाचकितस्तूष्णीं स्थित । चित्रग्रीव उवाच- ‘सखे हिरण्यक । किमस्मान सभाषसे १ ततो हिरण्यकस्तद्वचन प्रत्यभिज्ञाय ससश्रम बहिन सृत्याब्रवीत्- आ । पुण्यवानस्मि, प्रियसुहृन्मे चित्रग्रीवः समायात । यस्य मित्रेण संभाषा यस्य मित्रेण संस्थितिः।। यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥ ४० ॥ पाशबद्धाश्चैतान्दृष्ट्वा सविस्मय क्षण स्थित्वोवाच-सखे । किमेतृतु १ ' चिः- ग्रीवोऽवदत्-- सखे ! अस्माक प्राक्तनजन्मकर्मण फलमेतत् ।। यस्माच्च येन च यथा च यदा च यच्च यावच्च यत्र च शुभाशुभमात्मकर्म । तस्माच्च तेन च तथा च तदा च तच्च तावच्च तत्र च विधातृवशादुपैति ॥ ४१ ॥ रोगशोकपरीतापबन्धनव्यसनानि च । आत्मापराधवृक्षाणां फलान्येतानि देहिनाम् ॥४॥ एतच्छुत्वा हिरण्यकश्चित्रग्रीवस्य बन्धन छेत्तु सत्वरमुपसर्पति । चित्रग्रीव उवाच--* मित्र ! मा मैवम् । अस्मदाश्रितानामेषा तावत्पाशाछिन्वि, तदा मम पाश पश्चान्छेत्स्यभि ।' हिरण्यकोऽप्याह- अह चाल्पशक्ति , दन्ताश्च मे कोमला., तदेतेषा पाशाश्छेत्तु कथ समर्थ. १ तद्यावन्मे दन्ता न त्रुट्यन्ति ताव- तव पाश छिनग्नि । तदनन्तरमेषामपि बन्धनं यावच्छक्य छेत्स्यामि ।' चित्र- ग्रीव उवाच-4 अस्त्वेवम् । तथापि यथाशक्त्येतेषा बन्धन खण्डय ।' हिरण्य- केनोक्तम्- आत्मपरित्यागेन यदाश्रिताना परिरक्षणं तन नीतिविदा समतम् । यत - आपदर्थे धनं रक्षेद्दारात्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ४३ ।।