विपदि धैर्यमथाभ्युदये क्षमा |
संपदि यस्य न हर्षों विपाद विषादो रणे न भीरुत्वम् ।। |
अन्यच्च--
षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । |
इदानीमण्येव क्रियताम्, सर्वैरेकचित्तीभूय जाल्मादायोड्डीयताम् । यतः-----
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।। |
इति विचिन्त्य पक्षिण सर्वे जालमादायोत्पतिताः । अनन्तर स व्याधः सुदूराज्जालापहारकास्तानवलोक्य पश्चाद्धावन्नचिन्तयत्-- ।
संहतास्तु हरन्त्येते मम जालं विहङ्गमाः । |
ततस्तेषु चक्षुर्विषयातिक्रान्तेषु पक्षिषु स व्यावो निवृत्त ।
अथ लुब्धक निवृत्त दृष्ट्वा कपोता ऊचु - स्वमिन् ! किमिदानीं कर्तुमुचि- तम् १ ' चित्रग्रीव उवाच-
" माता मित्रं पिता चेति स्वभावात्रितयं हितम् । |
तदस्माक मित्रं हिरण्यको नाम मूषिकराजो गण्डकीतीरे चित्रवने निवसति । दन्तबलेन सोऽस्माक पाशाश्छेत्स्यति " इति आलोच्य सर्वे हिरण्यकविवरसमीपं गताः । हिरण्यकश्च सर्वदापायशङ्कया शतद्वारे विवढे कृत्वा निवसति-