सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(१०६)
[हितोपदेशे-
 


 इत्यालोच्य तूष्णी स्थित । ' अथ राजा बद्धाञ्जलिराह - ' तात । अस्त्यय ममापराध इदानी यथावशिष्टबलसहितः प्रत्यावृत्त्य विन्ध्याचल गच्छामि तथो- पदिश ।' गृध्र स्वगत चिन्तयति - ' क्रियतामत्र प्रतीकार । यत-

देवतासु गुरौ गोषु राजसु ब्राह्मणेषु च ।
नियन्तव्यः सदा कोपो बालवृद्धातुरेषु च ॥ १२३ ॥

 मन्त्री प्रहस्य ब्रूते - ' देव । मा मैषी । समाश्वसिहि । शृणु, देव ।

मन्त्रिणां भिन्नसंधाने भिषजां सान्निपातके ।
कर्मणि व्यज्यते प्रज्ञा सुस्थे को वान पण्डितः ॥ १२४॥

 अपर च-

आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ १२५॥

 तदत्र भवत्प्रतापादेव दुर्गं भक्त्वा कीर्तिप्रतापबलसहित त्वामचिरेण कालेन विन्ध्याचल नेष्यामि ।' राजाह - 'कथमधुना स्वल्पबलेन तत्सपद्यते १ गृध्रो वदति - ' देव ' सर्वं भविष्यति । यतो विजिगीषोरदीर्घसूत्रता विजय सिद्धेरवश्य- भाविलक्षण तत्सहसैव दुर्गावरोव क्रियताम् ' अथ प्रहितप्रणिधिना बकेनागत्य हिरण्यगर्भस्य तत्कथितम् ' देव | स्वल्पबल एवाय राजा चित्रवर्णो गृवस्य मन्त्रो - पष्टम्भेन दुर्गावरोध करिष्यति । ' राजाह - ' सर्वज्ञ । किमधुना विधेयम् १ ' चक्रो ब्रूते - ' स्वबले सारासारविचार क्रियताम् तज्ज्ञात्वा सुवर्णवस्त्रादिक यथार्ह प्रसादप्रदान क्रियताम् । यतः -

यः काकिणीमप्यपथप्रपन्नां
समुद्धरेनिष्कसहस्रतुल्याम् ।
कालेषु कोटिष्वपि मुक्तहस्त-
स्तं राजसिंहं न जहाति लक्ष्मीः ॥ १२६ ॥

 अन्यस्च्

क्रतौ विवाहे व्यसने रिपुक्षये
यशस्करे कर्मणि मित्रसंग्रहे ।